Enter your Email Address to subscribe to our newsletters
कोलकाता, 12 जुलाईमाः (हि.स.) ।यात्रिकाणां चालकरणां च सुरक्षां सुनिश्चितुं पश्चिमबंगालपरिवहनविभागेन ऐप्-बाइक् इत्यनेन यात्रां कुर्वतां यात्रिकाणां कृते सामानस्य भारस्य आकारस्य च मर्यादा अधुना निर्धारिता अस्ति।तदनुसारं, समग्रराज्ये सर्वेषां ऐप्-बाइकानां कृते पीतः आधारवर्णयुक्तः संख्या-फलकः (नंबर प्लेट्) अनिवार्यतया स्थाप्यः इति निर्णयः अपि कृतः।परिवहनविभागेन शुक्रवासरे प्रकाशितायां अधिसूचनायां निर्दिष्टं यत् कोऽपि यात्रिकः ऐप्-बाइक् यानेन यात्रा कुर्वन् १० किलोग्रामपर्यन्तं भारं यावत् एव वहतुं शक्नोति, तस्मात् अधिकं भारं गृहीत्वा यात्रा निषिद्धा।
तथैव वस्तुनः(सूतस्य) चौड़ायाः अधिकतमसीमा ३६ सेण्टीमीटर् इति अपि निर्धारिता।
विभागेन स्पष्टीकृतं यत् एते नियमाः केवलं कोलकाता-नगरे न सीमिताः, अपि तु समस्ते पश्चिमबंगालराज्ये सर्वेषु जनपदेषु अपि अनिवार्यतया प्रवर्तिष्यन्ते।
एतेषां नियमपालनस्य उल्लंघने गम्भीरदण्डः सह कठिनप्रकारेण कारवाही अपि करिष्यते इति चेतावनी प्रदत्ता।
विभागस्य कश्चन अधिकारी अवदत् यत् विगतदिनेषु दृष्टं यत् अनेकाः यात्रिकाः अतीव भारी-दीर्घाकारयुक्तान् पिटकान् गृहीत्वा ऐप्-बाइक् इत्यनेन यात्रा कुर्वन्ति।सः अवदत्— एतेषु प्रसङ्गेषु चालकैः यात्रिकान् निषेधितव्यम् आसीत्, परन्तु कदाचित् अधिकं धनं प्राप्तुं कामनया ते निषेधं न कुर्वन्ति। एतस्मात् कारणात् एव दुर्घटनानां सम्भावना वर्धते। अत एव विभागेन चिरकालात् भार-आकारयोः मर्यादां स्थापयितुं निर्णयः क्रियमानः आसीत्, यः अधुना प्रवृत्तः।एतदनुसारं, अधिकारी अवदत् यत् अनेकाः निजी-बाइक् चालकाः विना ऐप्-पञ्जीकरणस्य यात्रिकानां परिवहनं कुर्वन्ति, यः अनधिकृत-सेवा अस्ति।
एवं प्रकारस्य अनुचित-परिवहनस्य नियन्त्रणाय सर्वेषां ऐप्-बाइक्-वाहनानां कृते पीतः आधारवर्णयुक्तः संख्या-फलकः अनिवार्यः कृतः इति।विभागेन पुनः चेतितं यत् यदि चालकः वा ऐप्-संस्था वा एते नियमाः उल्लङ्घयति, तर्हि कठिनं वित्तीयदण्डं भुगवितुं भविष्यति।
हिन्दुस्थान समाचार