Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 12 जुलाईमासः (हि.स.)। शान्तिकुंजगायत्री परिवारस्य संस्थापिकायाः जन्मशताब्दी अवसरे माताभगवती-अन्नपूर्णायोजनायाः अंतर्गतं शान्तिकुंजद्वारा हरिद्वारजनपदस्य पञ्चाशत् तः अधिकक्षयरोगपीडितेभ्यः निक्षयपोषणपोटलिका वितरिता। डॉ. चिन्मय पाण्ड्या स्वस्य चिकित्सानुभवं सार्वजनिकं कुर्वन् अवदत् यत् कोऽपि रोगी न केवलं औषधेन, अपितु समुचितपोषणेन, सकारात्मकवातावरणेन च शीघ्रं स्वस्थः भवितुम् अर्हति। सः अवदत् यत् शरीरस्य रोगप्रतिरोधकशक्तिं वर्धयितुं पौष्टिकभोजनस्य भूमिका अतीव महत्त्वपूर्णा अस्ति।
सीएमओ डॉ. आरके सिंहः शान्तिकुञ्जेन चालितस्य एतस्य सेवाकार्यस्य प्रशंसाम् अकरोत् तथा च एतादृशाः कार्यक्रमाः क्षयरोगादिगम्भीररोगेण पीडितानां रोगिणां मानसिकशक्तिं प्रदास्यन्ति इति अवदत्। कार्यक्रमे हरिद्वारमण्डलस्य विभिन्नग्रामेभ्यः क्षयरोगपीडितानां ५० तः अधिकेभ्यः तेलं, मूंगफली, आटा इत्यादयः उच्चप्रोटीनयुक्तानि खाद्यपदार्थानि प्रदत्तानि।
शान्तिकुञ्जस्य प्रतिनिधिना उक्तं यत् माता भगवती अन्नपूर्णायोजनायाः अन्तर्गतं भविष्ये अपि पोषणभोजनवितरणशिबिराणि स्थापितानि भविष्यन्ति, येन आवश्यकतावशात् पोषणभोजनं वितरितुं शक्यते। अस्मिन् अवसरे प्रशासकयोगेन्द्रगिरी, डॉ. मंजूचोपदार, डॉ. अनिलकुमारवर्मा (डीटीओ), गोपालरजक सहितम् अनेके जनाः उपस्थिताः आसन्।
---------------
---------------
हिन्दुस्थान समाचार / Vibhakar Dixit