श्रावण मासे राज्ये समग्रे शुभारब्धा बोल बम यात्रा
गुवाहाटी, 14 जुलाईमासः(हि.स.)।श्रावणमासस्य आरम्भे एव भक्तजनाः भगवान् शिवस्य उपासने निमग्नाः सन्ति। अद्य श्रावणस्य प्रथमे सोमवारे राज्यस्थेषु शिवमन्दिरेषु शिवभक्तानां भीमा भीर् दृश्यते। राज्ये विविधप्रदेशेभ्यः जलं गृहीत्वा भक्ताः कावडयात्रां कृत्वा शि
श्रावण मासे राज्ये समग्रे शुभारब्धा बोल बम यात्रा


गुवाहाटी, 14 जुलाईमासः(हि.स.)।श्रावणमासस्य आरम्भे एव भक्तजनाः भगवान् शिवस्य उपासने निमग्नाः सन्ति। अद्य श्रावणस्य प्रथमे सोमवारे राज्यस्थेषु शिवमन्दिरेषु शिवभक्तानां भीमा भीर् दृश्यते। राज्ये विविधप्रदेशेभ्यः जलं गृहीत्वा भक्ताः कावडयात्रां कृत्वा शिवमन्दिरेषु जलाभिषेकं कुर्वन्ति।

राजधानी-गुवाहाटीस्थे वशिष्ठमन्दिरप्राङ्गणात् निर्गता वशिष्ठगङ्गातः जलं गृहीत्वा सहस्रशः श्रद्धालवर्गः राजधानीस्थे पानबाजारे शुक्रेश्वरदेवालये शिवस्य जलाभिषेकं करोति। रविवासरे रात्रौ एव भक्तजनाः जलं गृहीत्वा मन्दिरदिशं प्रयाताः दृश्यन्ते स्म।

राजधानीस्थे पामोहीप्रदेशे भीमशंकर-स्वयम्भू-ज्योतिर्लिङ्गपरिसरेऽपि भक्तानां विशालभीः दृश्यते। एवं च उमानन्द-मन्दिरं प्रति असमराज्ये यत्रकुत्रापि स्थितेषु शिवमन्दिरेषु भक्तजनानां भीमा भीर् लक्ष्यते।

एवं नगाँवजनपदस्य कठियातलीप्रदेशे स्थिते ऐतिहासिके रेंगबेंगबाबाधामे भव्यम् “बोलबमयात्रा” आयोजिता अस्ति। श्रावणमासस्य प्रसङ्गे रविवासरे जनपदस्य विविधदेशेभ्यः अनेके भक्तजनाः मन्दिरपरिसरे समागत्य, तस्मादेव जलं गृहीत्वा सोमवारे प्रातःकाले “पुवा-शिवमन्दिरे” अर्पयन्ति। श्रद्धालूनां विश्वासः अस्ति यत् एवं कृत्वा सर्वाः कामनाः पूर्णाः भवन्ति।

भक्तजनानां सुविधायै प्रशासनम् मन्दिर-प्रबन्धन-समितिश्च समुचितप्रबन्धं कृतवन्तौ। आयोजकैः आगामीदिनेषु अस्मिन् पावने उत्सवे अधिकाधिकभक्तजनानां सहभागः भवेत् इति प्रार्थितम्।

एवं प्रकारेण सम्पूर्णश्रावणमासपर्यन्तं राज्यस्थेषु सर्वेषु शिवमन्दिरेषु व्यापकस्तरे शिवपूजनम् आयोज्यते स्म।

हिन्दुस्थान समाचार