Enter your Email Address to subscribe to our newsletters
भोपालम्, 15 जुलाईमासः (हि.स.)। अद्य मंगलवासरः विश्वयुवकौशलदिवसः अस्ति। प्रतिवर्षं 15 जुलाई दिनाङ्के आयोज्यते विश्वयुवाकौशलदिवसः युवानां व्यवसायस्य, सभ्यकार्यस्य, उद्यमशीलतायाः च कौशलेन सुसज्जीकरणस्य सामरिकमहत्त्वे केन्द्रितः अस्ति। अस्य दिवसस्य उत्सवस्य उद्देश्यं व्यवसाय प्रवर्धनस्य स्थायिविकासस्य च साधनरूपेण युवाकौशलेषु निवेशस्य महत्त्वस्य विषये जागरूकताम् उत्थापयितुं वर्तते। मुख्यमन्त्री डॉ. मोहन यादवः युवानां कृते विश्वयुवाकौशलदिवसस्य शुभकामनाम् अयच्छत्।
मुख्यमन्त्री डॉ. यादवः सामाजिकमाध्यमेषु पोस्ट् कृत्वा लिखितवान्, विश्वयुवाकौशलदिवसस्य हार्दिकं अभिनन्दनानि शुभकामनाश्च। 2025 वर्षस्य विषयः अस्ति 'एआइ तथा डिजिटल कौशलस्य माध्यमेन युवासशक्तिकरणम्', यत् एआइ मार्गेण अर्थव्यवस्थाः नूतनां दिशां प्राप्नुवन्ति इति प्रेरयति, एतादृशे परिस्थितौ युवानां उज्ज्वलभविष्यस्य अनुसारं तन्त्रज्ञान-व्यावसायिक-शिक्षा-प्रशिक्षणयोः विकासः करणीयः भविष्यति, येन युवानः असीमितम्-अवकाशान् प्राप्नुयुः |. अस्मिन् मार्गे अस्माकं राज्यं अग्रे गच्छति इति वयं प्रसन्नाः स्मः।
हिन्दुस्थान समाचार / ANSHU GUPTA