मुख्यमंत्रिणो याेगिनः सचिवस्य अमित सिंहस्य प्रतिनियुक्तिः पुनर्वर्धिता
लखनऊ, 15 जुलाईमासः (हि.स.)।केंद्र-सरकारेण उत्तरप्रदेशस्य मुख्यमंत्रिणो योगिनः आदित्यनाथस्य सचिवः अमित सिंह इत्यस्य प्रतिनियुक्तिः पुनरपि संवर्धिता। अद्यत्वे सः मार्च् २०२७ पर्यन्तं स्वपदे स्थातुं शक्नोति। २००० तमे संवत्सरे दीक्षितः भारतीय-रेल परिवहन
जारी आदेश


लखनऊ, 15 जुलाईमासः (हि.स.)।केंद्र-सरकारेण उत्तरप्रदेशस्य मुख्यमंत्रिणो योगिनः आदित्यनाथस्य सचिवः अमित सिंह इत्यस्य प्रतिनियुक्तिः पुनरपि संवर्धिता। अद्यत्वे सः मार्च् २०२७ पर्यन्तं स्वपदे स्थातुं शक्नोति।

२००० तमे संवत्सरे दीक्षितः भारतीय-रेल परिवहन सेवा (IRSS) अधिकारीः अमित सिंह-महाभागस्य प्रतिनियुक्तिः २०२७ मार्च् मासस्य पर्यन्तं स्वीकृता इति केन्द्र-सरकारेण आदेशः प्रकाशितः।

उल्लेखनीयं यत्— आई.आर.एस.एस. अधिकारीः अमित सिंह जब यदा उत्तरप्रदेशे प्रतिनियुक्तः अभवत्, तदा प्रभृति सः मुख्यमन्त्रिणः सचिवपदे आसीत्।

सः मुख्यमन्त्रिणः योगिनो आदित्यनाथस्य विश्वासार्हः च कर्तव्यनिष्ठः च अधिकारीरूपेण गण्यते।

हिन्दुस्थान समाचार