शासनस्य योजनानां लाभं प्रदातुं कॉमन् सर्विस् केन्द्राणां महत्वपूर्णं योगदानम् अस्ति - शुक्लः
भोपालम्, 16 जुलाईमासः (हि.स.)।उपमुख्यमन्त्री राजेन्द्रशुक्लः उक्तवान् यत् केन्द्रराज्ययोः सर्वकारयोः जनकल्याणकारीयोजनानां लाभः ग्रामीणक्षेत्रेषु अन्तिमपुरुषपर्यन्तं प्रदातुं कॉमन् सर्विस् केन्द्राणां (सीएससी) भूमिका अतिमहत्त्वपूर्णा अस्ति। सीएससी केन
कॉमन सर्विस सेंटर के 16वें स्थापना दिवस पर आयोजित संभाग स्तरीय कार्यशाला


भोपालम्, 16 जुलाईमासः (हि.स.)।उपमुख्यमन्त्री राजेन्द्रशुक्लः उक्तवान् यत् केन्द्रराज्ययोः सर्वकारयोः जनकल्याणकारीयोजनानां लाभः ग्रामीणक्षेत्रेषु अन्तिमपुरुषपर्यन्तं प्रदातुं कॉमन् सर्विस् केन्द्राणां (सीएससी) भूमिका अतिमहत्त्वपूर्णा अस्ति। सीएससी केन्द्रैः हितग्राहिभ्यः सर्वाः औपचारिकताः पूरयित्वा तान् योजनालाभाय पात्रान् क्रियन्ते।

उपमुख्यमन्त्री शुक्लः बुधवासरे सायं काले रीवायाः कृष्णराजकपूर् ऑडिटोरियम् मध्ये आयोजिते कॉमन् सर्विस् सेंटरस्य षोडशतमस्थापनदिवसे संभागस्तरीयकार्यशालायां भाषणं कृतवान्। सः सीएससी केन्द्रेषु कार्यरतानां ग्रामीणक्षेत्रीयानाम् उद्यमिनां शुभकामनाः दत्त्वा उक्तवान् यत् ते जनकल्याणाय निरन्तरं क्रियाशीलाः स्युः।

शुक्लः अवदत् यत् राज्यसर्वकारेण अनेकाः जनहितयोजनाः चालयन्ते, येषां लाभः अग्रे आगत्य स्वीकर्तव्यः। “लाडली बहना योजना” इत्यनेन स्त्रियः आत्मनिर्भराः भूत्वा समाजे महत्वपूर्णं स्थानं प्राप्तवत्यः। अस्याः योजनायाः माध्यमेन राज्यस्य महती जनसंख्या आर्थिकरूपेण सशक्तता प्राप्तवती अस्ति।

कार्यक्रमे विधायकः दिव्यराजसिंहः, जिला पंचायत् अध्यक्षः नीता कोल च स्थानीयजनप्रतिनिधयः सीएससी प्रभारी च उपस्थिताः आसन्।

हिन्दुस्थान समाचार