मुख्यमंत्री भजनलाल शर्मा डिग्गीपुरी कल्याणजी तीर्थ क्षेत्र विकास समित्या सह कृतवान् मेलनम्
जयपुरम्, 17 जुलाईमासः(हि.स.)।मुख्यमन्त्रिणं भजनलालशर्माणं बुधवासरे मुख्यमंत्रीनिवासे श्रीडिग्गीपुरीकल्याणजीतीर्थक्षेत्रविकाससमितेः प्रतिनिधिमण्डलेन सौजन्यपूर्वकं साक्षात्कारः कृतः। प्रतिनिधिमण्डलेन राज्यसरकारेण श्रीकल्याणतीर्थस्य समग्रविकासाय उद्घोष
मुख्यमंत्री भजनलाल शर्मा से डिग्गीपुरी कल्याणजी तीर्थ क्षेत्र विकास समिति की भेंट


जयपुरम्, 17 जुलाईमासः(हि.स.)।मुख्यमन्त्रिणं भजनलालशर्माणं बुधवासरे मुख्यमंत्रीनिवासे श्रीडिग्गीपुरीकल्याणजीतीर्थक्षेत्रविकाससमितेः प्रतिनिधिमण्डलेन सौजन्यपूर्वकं साक्षात्कारः कृतः।

प्रतिनिधिमण्डलेन राज्यसरकारेण श्रीकल्याणतीर्थस्य समग्रविकासाय उद्घोषितस्य कॉरिडोर निर्माण योजना विषये मुख्यमन्त्रिणः प्रति आभारः व्यक्तः।

तेन प्रतिनिधिमण्डलेन श्रीकल्याणमन्दिरपरिसरस्य संरचनात्मकविकासः, श्रद्धालूनां सुविधाः, धार्मिक-सांस्कृतिकक्रियानां विस्तारः च इत्येतेषां विविधविषयाणां सन्दर्भे विस्तृतचर्चा कृता।

मुख्यमन्त्रिणा समितेः सदस्येभ्यः एषा प्रतिज्ञा प्रदत्ता यत् राज्यसरकारं एतस्य ऐतिहासिकतीर्थस्थानस्य सुव्यवस्थितविकासाय पूर्णया प्रतिबद्धतया कार्यं करिष्यति।

अस्मिन सन्दर्भे समितेः प्रमुखसदस्यः विनयकुमारशर्मा, चन्द्रप्रकाशगौतमः च अन्ये च मान्यवराः सदस्याः अपि उपस्थिताः

आसन्।

---------------

हिन्दुस्थान समाचार