Enter your Email Address to subscribe to our newsletters
पटना, 17 जुलाईमासः (हि.स.)।
राजधानीपटनासहिते समग्रे प्रान्ते झरझरायमानवृष्ट्या जनाः ऊष्णगर्भिततापात् राहतिं प्राप्तवन्तः। मौसमविज्ञानकेन्द्रस्य पटना इत्यस्य अनुसारं आगामि चतुर्विंशतिघण्टासु पटनासहिते विंशति-जनपदेषु मेघगर्जनसहितं वर्षणं सम्भाव्यते।
दक्षिणबिहारप्रदेशे भभुआ, रोहतास इत्यत्र अतीवतीव्रवृष्टेः चेतावनी प्रदत्ता अस्ति। अरवल्, औरंगाबाद्, बक्सर्, जहानाबाद्, नालन्दा, बांका, जमुई, शेखपुरा इत्यादिषु स्थलेषु तीव्रवृष्टेः सम्भावना अस्ति। एतेषां स्थलेषु त्रिंशत्-चत्वारिंशत्किलोमीटर् प्रतिघण्टं वेगेन तीव्रवातः अपि सम्भाव्यते।
गतचतुर्विंशतिघण्टासु गया, बेगूसराय, समस्तीपुर, सहरसा, औरंगाबाद्, जमुई, नवादा इत्येतेषां विविधभागेषु वर्षा अभिलिखिता। गयाजी क्षेत्रे डोभीनाम्नि स्थले 186.8 मिमी इत्येतावत् अतीववृष्टिः सम्प्रति ऋतौ सर्वाधिकं अभिलिखिता। राजधानीपटनायां 26.6 मिमी वर्षा अभवत्।
बुधवासरे गयाजी क्षेत्रस्य शेरघाटी इत्यत्र 181.4 मिमी, फतेहपुरे 180.2 मिमी, मोहनपुरे 169.4 मिमी, बाराचट्टी 166.2 मिमी, बांकेबाजार 156.0 मिमी, समस्तीपुरस्य दलसिंहसरायस्थले 139.6 मिमी, जमुईस्थखैरायां 136.4 मिमी, बेगूसरायस्थबछवाड़ायां 121.4 मिमी वर्षा अभवत्।
औरंगाबादस्य मदनपुरे 120.8 मिमी, बेगूसरायस्थबरौण्यां 105.8 मिमी, औरंगाबादस्य कुटुंबायां 100.2 मिमी, समस्तीपुरे 95 मिमी, जमुईस्य लक्ष्मीपुरे 91.2 मिमी, जमुईमध्ये 90.6 मिमी इत्येवं तीव्रवृष्टिः अभिलिखिता।
---------------
हिन्दुस्थान समाचार