Enter your Email Address to subscribe to our newsletters
– मम ग्रामः, मम जलम् अभियानस्य अन्तर्गतम् 1.65 लक्षाधिकानां सोख्तगर्तानां निर्माणम्
बलरामपुरम्, 17 जुलाईमासः (हि.स.)। जलसंरक्षणक्षेत्रे बलरामपुरजनपदेन एका ऐतिहासिकी प्रसिद्धिः प्राप्ता। मम ग्रामः, मम जलम् इत्यस्मिन् अभियाने अन्तर्गतम् एकलक्षं पंचषष्टिसहस्रं एकत्रिंशदधिकानां (1,65,193) सोख्तगर्तानां निर्माणं कृत्वा जलसंरक्षणे अद्वितीयम् उदाहरणं स्थापितम्। अस्य अद्भुतप्रसिद्धेः कृते गोल्डन बुक ऑफ वर्ल्ड रेकॉर्ड् इत्यस्मिन् नाम प्रविष्टम्।
गोल्डन बुक ऑफ वर्ल्ड रेकॉर्ड् संस्थायाः राज्यप्रमुखया सोनलशर्मा महोदयया गतसंध्यायां बलरामपुरकलेक्टर आर कटारा महोदयाय च जिलापञ्चायत सीईओ नयनतारा सिंह तोमरमहोदयाय च प्रमाणपत्रं समर्प्य एषा उपलब्धिः सम्मानिता। तस्मिन् अवसरे अन्ये अधिकारीणः कर्मचारीणश्च उपस्थिताः आसन्।
इदम् अभियानः कलेक्टर कटारा महोदयस्य मार्गदर्शनेन, नयनतारा सिंह तोमर महोदयायाः नेतृत्वेन च जनपदपञ्चायतानां सक्रियसहभागितया सफलतां प्राप्तवान्। ग्रामवासिनः, विशेषतः महिलाः, स्वसहायतासमूहाः, प्रधानमंत्रीआवासलाभार्थिनः, मनरेगाजॉबपत्रकधारकाः च अस्मिन अभियाने सक्रियं योगदानं कृतवन्तः।
ग्रामस्तरे जनसंवादद्वारा, भित्तिलेखनैः, पत्रिकाभिः, फलकैश्च जलसंरक्षणस्य महत्वं जनजनं प्रति सम्प्रेषितम्। ग्रामीणानां प्रति सोख्तगर्तनिर्माणस्य तकनीकीज्ञानं — यथा गर्तस्य आयामः, निर्माणद्रव्याणि (इष्टिका, शिलाखण्डः, वालुकायाः इत्यादि) इत्यादिषु जागरूकता कृता।महिलास्वसहायतासमूहैः स्वगृहेषु न केवलं गर्तनिर्माणं कृतं, अपि तु अन्यान् अपि प्रेरितवन्तः। स्वच्छतायाः पालनाय अपि उत्तरदायित्वं स्वीकृतवन्तः। अस्मिन् अभियाने सामूहिकसहयोगस्य, जनजागरणस्य च नूतनम् आदर्शं स्थापयति।
प्रशासनस्य सुयोजितरणनीतिः, ग्रामीणजनानां सक्रियता च मिलित्वा एषं अभियानं अभूतपूर्वं सफलं कृतम्। गर्तनिर्माणेन वर्षाजलस्य संचयनं सम्भवम्, येन भूजलस्तरे सुधारः, पर्यावरणरक्षणं च साध्यते। बलरामपुरजिलस्य एषा सिद्धिः न केवलं छत्तीसगढ़राज्यस्य, अपितु सम्पूर्णभारतेषु प्रेरणादायकं उदाहरणं जातम्।
एतेषा जनपदवासिनां गौरवः – नयनतारा
गोल्डन बुक ऑफ वर्ल्ड रेकॉर्ड् इत्यस्मिन् सम्मिलिते सती जिला पंचायत् सीईओ नयनतारा सिंह तोमर महोदया उक्तवती यत्
“एषा सम्पूर्णजिलस्य सम्मानः। अस्माकं कलेक्टर महोदयस्य मार्गदर्शनेन, जनपदवासिनां च कर्मयोगिनां च सहयोगेन अस्माकं लक्ष्यं प्राप्तम्। सर्वेषां योगदानं स्मरणीयम्। विशेषतः स्वसहायतासमूहमहिलानां च प्रधानमंत्रीआवासलाभार्थिनां च सहयोगः विशेषप्रशंसनीयः।”
---------------
हिन्दुस्थान समाचार