मालदहे महती वर्षा जलनिमग्नता, निकासी व्यवस्थायां उत्थितः प्रश्नः
मालदहम्, 17 जुलाईमासः (हि.स.)। सततं वृष्ट्या मालदहनगरं सम्पूर्णतः जलमग्नं जातम्। वृष्टेः कारणेन इंग्लिशबाजारनगरपालिकाक्षेत्रस्य बहुषु भागेषु गम्भीरं जलनिवेशनं जातम्। अस्य परिणामस्वरूपं न केवलं सामान्यजनजीवनं विक्षिप्तम्, अपि तु नगरपालिकायाः जलनिकासव
मालदह में भारी बारिश से जलजमाव, निकासी व्यवस्था पर उठे सवाल


मालदहम्, 17 जुलाईमासः (हि.स.)।

सततं वृष्ट्या मालदहनगरं सम्पूर्णतः जलमग्नं जातम्। वृष्टेः कारणेन इंग्लिशबाजारनगरपालिकाक्षेत्रस्य बहुषु भागेषु गम्भीरं जलनिवेशनं जातम्। अस्य परिणामस्वरूपं न केवलं सामान्यजनजीवनं विक्षिप्तम्, अपि तु नगरपालिकायाः जलनिकासव्यवस्था अपि उद्भूतदोषेन प्रकाशमागता।

वर्षया नगरस्य कतिपयेषु भागेषु जानुपर्यन्तं जलं सञ्चितं दृश्यते। मालदहचिकित्सालयमहाविद्यालयस्य अपि किञ्चन भागः जलपूर्णः जातः। कोपसंयुक्ता नागरिकाः स्वस्वप्रदेशाणां जलमग्नताचित्राणि सामाजिकमाध्यमेषु प्रकाशितवन्तः, येन नगरपालिकायाः तीव्रं विरोधं व्यक्तवन्तः।

अस्य विषयस्य सन्दर्भे विपक्षदलेन सत्तारूढतृणमूलकाङ्ग्रेसदलस्य च नगरपालिकाप्रशासनस्य च प्रत्यक्षं दोषारोपणं कृतम्। भारतीयजनतापक्षनेता अम्लानभादुरी महोदयः अवदत्– “अतीतेषु कतिपयवर्षेषु नगरपालिकया त्रिकोटिरूप्यकातिरिक्तं व्ययितम्, किन्तु किमपि परिणामं न दृश्यते। यः ड्रेनेज्-व्यवस्थायाः सम्बन्धे अभिप्रायः व्यक्तः, सः सम्पूर्णतः विफलः जातः। अध्यक्षः केवलं बहुनिर्माणे निपुणः। जनसामान्यस्य दुःखस्य सम्पूर्णदायित्वं कृष्णेन्दुनारायणचौधुरीमहाशयस्य अस्ति। नगरनिवासिनः आगामिविधानसभा-निर्वाचनेऽस्मिं विफलतायाः प्रत्युत्तरं दास्यन्ति।”

एतेषां आरोपाणां प्रत्युत्तररूपेण नगरपालिका-अध्यक्षः कृष्णेन्दुनारायणचौधुरी महोदयः अवदत्– “सततं मुष्णती वृष्टिः कारणं कृत्वा किञ्चन भागे जलनिवेशनं जातम्, किन्तु रात्रौ यावत् प्रायः सर्वेषु स्थलेभ्यः जलनिष्क्रमणं सम्पन्नम्। यः ५८ लक्षरूप्यकाणां व्ययेन निर्मितः ड्रेनेज्-प्रकल्पः अस्ति, तस्य फलमेव एषः जलप्रवाहः, अन्यथा परिस्थित्याः अधिकं विघटनं सम्भव्यम्। विपक्षदलः केवलं आलोचनार्थं आलोचनां करोति। वयं राज्यसरकारतः अतिरिक्तसाहाय्यस्य याचनां कृतवन्तः स्म।”

एतस्मिन्नेव समये मौसमविभागस्य अधिकारी तपनकुमारदासेन विज्ञापितम् यत्— “मङ्गलवासरे प्रातः ८:३० वादनतः आरभ्य बुधवासरे सायं ५:३० वादनपर्यन्तं मालदहप्रदेशे ८८ मि.मी. वर्षा अभिलिखिता। आगामिनि त्रिदिनेषु मन्दवृष्टेः वा मध्यमवृष्टेः सम्भावना अस्ति” इति।

---------------

हिन्दुस्थान समाचार