Enter your Email Address to subscribe to our newsletters
पाटलिपुत्रम्, 18 जुलाई-मासः (हि.स.)। मौसमविभागेन आगामिषु 24 होराषु बिहारस्य पश्चिमचम्पारण-गोपालगञ्ज-सिवान-नगरेषु प्रचण्डवृष्टेः सचेतना प्रकाशितकृता अस्ति। एतदतिरिक्तं उत्तरमध्यबिहारे 30-40 किलोमीटर् प्रतिहोरावेगेन प्रचण्डवायुः, विद्युत्प्रवाहस्य च सम्भावना वर्तते । गुरुवासरे बिहारस्य भभुआ-नगरस्य भगवानपुरे सर्वाधिकं 160.4 मि.मी. वृष्टिः अभिलेखिता अस्ति।
पाटलिपुत्रनगरस्य मौसमविज्ञानकेन्द्रस्य अनुसारं दक्षिणपूर्वोत्तरप्रदेशस्य दक्षिणपश्चिमबिहारस्य च परितः निर्मितः निम्नदाबक्षेत्रः वायव्यदिशि गच्छति। अस्य प्रभावस्य कारणात् 20 जलाईतः बिहारे वर्षाव्यवस्था अधिका सक्रियः भविष्यति, यस्मात् कारणात् 20 जुलाईतः 23 पर्यन्तं सुवृष्टेः सम्भावना वर्तते।गत 24 होराषु वैशाली, रोहतास, औरंगाबाद, मधुबनी इत्यादिषु जनपदेषु अपि उत्तमवृष्टिः अभवत्, येन किञ्चित्पर्यन्तं तापमानं नियन्त्रितम्।
विशेषतः येषु क्षेत्रेषु प्रचण्डवृष्टिः, मेघगर्जनस्य च सम्भावना वर्तते, तत्र जनाः सतर्का भवेयुः इति मौसमविभागेन परामर्शः दत्तः। कृषकाणां बहिः कार्यं कुर्वतां च विद्युत्प्रकोपस्य परिहाराय सतर्कतयाः आवश्यकता वर्तते। बिहारे मानसूनस्य एषः चरणः आगामिदिनानि यावत् निरन्तरं भविष्यति, यस्मात् कारणात् वातावरणः अधिकः शीतलः भवितुम् अर्हति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA