बलिदानदिवसः — कोलकाता-नगरे तृणमूल्-कर्मकर्तॄणां जनसागरः, उच्च-न्यायालयस्य निर्देशेषु मध्ये यातायात्-नियन्त्रणस्य महती समस्या।
कोलकाता, २१ जुलाई (हि.स)। तृणमूल्-काँग्रेस्-पक्षस्य शहीद-दिवस- यत्रायाः कृते सोमवासरस्य प्रभातकालाद् आरभ्य एव समग्र-राज्येभ्यः कार्यकर्तारः समर्थकाश्च धर्मतलाभिमुखं प्रयान्ति स्म। रविवासर-रात्रिकालाद् आरभ्य सहस्रशः जनाः कोलकातानगरं प्राप्तवन्तः, यत्र
ममता रैली


कोलकाता, २१ जुलाई (हि.स)। तृणमूल्-काँग्रेस्-पक्षस्य शहीद-दिवस- यत्रायाः कृते सोमवासरस्य प्रभातकालाद् आरभ्य एव समग्र-राज्येभ्यः कार्यकर्तारः समर्थकाश्च धर्मतलाभिमुखं प्रयान्ति स्म। रविवासर-रात्रिकालाद् आरभ्य सहस्रशः जनाः कोलकातानगरं प्राप्तवन्तः, यत्र ते मञ्चस्य समीपे निवासं कृतवन्तः।

हावड़ा-सियालदह-स्थानकेभ्यः प्रभाते जनसमूहः नगराभिमुखं जुलूसरूपेण प्रस्थितः। धर्मतलायाः समीपवर्ती मार्गेषु ममताबनर्जी तथा अभिषेकबनर्जी इत्येतयोः महत् 'कटआउट्-पोस्टर-प्लेक्स' इत्यादीनि दृष्टिगोचराणि भवन्ति।

प्रत्येकवर्षवत्, अस्मिन् वर्षे अपि धर्मतलायां तृणमूल्-पक्षेन भव्यं मञ्चं सज्जीकृतम्, यत्र मुख्यमन्त्री- ममताबनर्जी, पक्षस्य राष्ट्रीय-महासचिवः अभिषेकबनर्जी च अन्ये वरिष्ठनेतारः अपि उपस्थिताः स्युः। किन्तु अस्मिन् वर्षे यात्रां प्रति उच्चन्यायालयस्य कठोरं दृष्टिं दृश्यते।

कलकत्ता-उच्चन्यायालयेन स्पष्टं निर्देशः प्रदत्तः यत् सप्ताहस्य प्रथमे कार्यदिवसे नगरे यातायात्-विघ्नः न स्यात्। प्रातः अष्टवादनपर्यन्तं समूहसस्य अनुगमनम् अनुमोदितम्, ततः नववादनपर्यन्तं यत्र- यत्र समूहः आगच्छेत्, तत्र एव स्थातव्यम्। नववादनात् एकादशवादनपर्यन्तं नगरे कदाचन अपि यातायात - वाहनं न भवेत् इति आदेशः दत्तः।

कोलकाता- आरक्षकस्य आदेशः प्राप्तः यत् उच्चन्यायालयस्य च मध्यकोलकातायाः च पञ्च-किलोमीटर-परिधेः अन्तर्गतं यातायात: सामान्यं स्थास्यति इति सुनिश्चितव्यम्।

लालबाजार-कार्यालयात् निर्गत-निर्देशानुसारं, कोलकातानगरे केषाञ्चन प्रमुखमार्गेषु यातायात-विभ्रंशः योजितः। सोमवासरे प्रातः चतुर्वादनात् रात्रौ नववादनपर्यन्तं, अमहर्स्ट्-मार्गः, विधान-सरणिः, कॉलेज्-मार्गः, ब्रैबॉर्न्-मार्गः, स्ट्रैण्ड्-मार्गः, बी.बी. गांगुली-मार्गः, बेन्टिंक्-मार्गः, नव-सी आई टी-मार्गः, रवीन्द्र-सरणिः इत्यादिषु यातायात: नियंत्रितः भविष्यति।

अद्य पर्यन्तम् मुख्यं चिन्तनीयं विषयम् एषः यत् — किम् एतस्मिन् भीमसमुदाये अपि आरक्षक-पक्षकर्मकर्तारश्च मिलित्वा न्यायालयस्य निर्देशानां पूर्णं पालनं कर्तुं शक्नुवन्ति वा न वा। यात्राकार्यक्रमः एकादशवादनानन्तरं औपचारिकतया आरभ्यते इति संभाव्यते, यदा यायायात-नियन्त्रणस्य बन्धनं समाप्तं भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA