मध्यप्रदेशे पुनः वातावरणं सक्रीयं जातम् , अद्य जबल्पुरसहिते द्वादशसु जनपदेषु अतिवृष्टेः सचेतना
- सोमवारे रात्रौ भोपालसहिते अनेकेषु जनपदेषु वृष्टिः जाता भोपालम्, 22 जुलाई मासः (हि.स.)। मध्यप्रदेशे स्थगितः वृष्टिक्रमः पुनः अपि सक्रीयः जातः। नूतनस्य चक्रवातीय-प्रचक्रस्य (सायक्लोनिक्-सर्कुलेशन) ट्रफ्-रेखायाः च सक्रीयत्वेन मानसूनः पुनः वेगेन गतिम्
सोमवार को इंदौर में हुई बारिश से सड़कों पर भरा पानी


- सोमवारे रात्रौ भोपालसहिते अनेकेषु जनपदेषु वृष्टिः जाता

भोपालम्, 22 जुलाई मासः (हि.स.)। मध्यप्रदेशे स्थगितः वृष्टिक्रमः पुनः अपि सक्रीयः जातः। नूतनस्य चक्रवातीय-प्रचक्रस्य (सायक्लोनिक्-सर्कुलेशन) ट्रफ्-रेखायाः च सक्रीयत्वेन मानसूनः पुनः वेगेन गतिम् अवाप्तवान्। सोमवारे रात्रौ भोपालसहिते अनेकेषु जनपदेषु वृष्टिः अभवत्। वातावरणविभागेन अद्य मङ्गलवासरे जबल्पुरसहिते द्वादशसु जनपदेषु अतिवृष्टेः चेतावनी प्रकाशिता अस्ति। अत्र आगामी 24 होरेषु 4.5 अङ्गुलपर्यन्तं जलपातः सम्भाव्यते। तदपूर्वं सोमवारे इन्दौरसहिते अपि अनेकेषु जनपदेषु वृष्टिः जाता। इन्दौरे तु मार्गेषु जलभरः अपि जातः।

वातावरणविभागस्य अनुसारं, चक्रवातीय-प्रचक्र-व्यवस्थायाः कारणेन चत्वारि दिनानि अतिवृष्टिः सम्भाव्यते। वातावयण-ट्रफ्-रेखा अपि सक्रिया अस्ति। अपरपक्षे 24 जुलाई दिनाङ्के बंगाल-सागरस्य उपकूले नूतनं निम्नदाबक्षेत्रं (लो प्रेशर एरिया) सक्रीयं भविष्यति। अस्य अपि प्रभावः राज्ये दृश्यते। अद्य मङ्गलवासरे जबल्पुर्, मण्डला, डिण्डोरी, बालाघाट, सिवनी, छिन्द्वाडा, पाण्डुर्णा, नर्मदापुरम्, बैतूल्, हरदा, देवास्, सीहोर् इत्यादिषु जनपदेषु अतिवृष्टेः चेतावनी अस्ति। अत्र 24 होरेषु 4 अङ्गुलपर्यन्तं जलपातः सम्भाव्यते।

उल्लेखनीयम् यत्, अस्मिन् वर्षे वर्षाकाले राज्ये 20.7 अङ्गुलपर्यन्तं औसत् वृष्टिः जाता। निवाडि, टीकमगढ्, श्योपुर् इत्येषु त्रिषु जनपदेषु कोटा पूरितम्। अत्र सामान्यतः 15% अधिकः वर्षाः जातः। ग्वालियरसहिते पञ्चसु जनपदेषु अपि उत्तमा स्थिति दृश्यते। अत्र 80-95% पर्यन्तं वृष्टिः जातः। इतरस्मिन् पक्षे इन्दौर्, उज्जैन् संभागयोः स्थिति न्यूनम्। अत्र इन्दौर्, उज्जैन्, शाजापुर्, बुरहानपुर्, आगर-मालवा इत्यादिषु जनपदेषु दशाङ्गुलात् अपि न्यूनं जलम् पतितम्।

सोमवारे राज्यस्य अनेकेषु जनपदेषु वातावरणे परिवर्तनं दृष्टम्। इन्दौरे तीव्रवृष्टेः कारणात् मार्गाः जलपूर्णाः अभवन्। त्रैम्ली-चतुष्पथस्य समीपे ज्यूपिटर्-श्वासालयस्य समीपे सेवा-मार्गे अपि जलभरः जातः, येन वाहनानां सञ्चारः बाधितः। वातावरणविभागेन अत्र 19 मि.मी. (पौन अङ्गुल) जलपातः लिखितः। सिवन्यां अपि तुल्यः जलपातः जातः। उमरिया, बालाघाट-मलाजखण्ड्, खजुराहो, मण्डला इत्येषु अर्धाङ्गुल-जलपातः दृष्टः। सागर् जनपदे अपि लघु-वृष्टिः जाता।

एवमेव मण्डला, अनुपपुर्, सिवनी, डिण्डोरी, बालाघाट्, छिन्द्वाडा, जबल्पुर्, बैतूल्, उमरिया, उज्जैन्, हरदा, बडवानी, रायसेन्, नर्मदापुरम्, नरसिंहपुर्, दमोह्, शहडोल्, श्योपुर्, विदिशा, सीहोर्, मुरैना, भिण्ड्, ग्वालियर्, सिंगरौली इत्यादिषु जनपदेषु अपि वातावरणे परिवर्तनं जातम्। 23-24 जुलाई-दिनाङ्कयोः अपि राज्ये तीव्रवृष्टयाः चेतावनी अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA