Enter your Email Address to subscribe to our newsletters
नवदेहलीनगरम्, 23 जुलाईमासः (हि.स.) मद्यपेयवस्तूनाम् आयातनं कृत्वा भारतदेशे च समासन्नदेशेषु च विक्रयं कुर्वती या कम्पनी मोनिका एल्कोबेव इत्यस्ति, तस्या: अंशानि अद्य स्टॉक्-मार्केट् इत्यस्मिन् न्यूनलाभेन सह प्रविष्टानि।आई.पी.ओ. (प्रारम्भिक सार्वजनिक प्रस्तुति) अन्तर्गतं तस्या: अंशानि ₹286 मूल्यम् नियोजितानि आसन्।अद्य बी.एस.ई. (बॉम्बे स्टॉक एक्सचेंज) इत्यस्य एस.एम.ई. (लघु-मध्यम-उद्यम) मंचे 0.07 प्रतिशतं प्रीमियमेन सह ₹288 मूल्ये सूच्यां प्रविष्टौ जाता।
तस्यां सूची अनन्तरं क्रयविक्रयकर्म आरब्धं, येन कारणेन अंशेषु वर्धमानदिशा दृष्टा। प्रातःकाले 10:30 वादनपर्यन्तं व्यापारकाले तस्या: अंशानि ₹289.50 मूल्ये विक्रय्यमानानि आसन्।एतेन व्यापारकाले तस्या: आई.पी.ओ. निवेशकेभ्यः 1.22 प्रतिशतं लाभः प्राप्तः।
मोनिका एल्कोबेव इत्यस्य 165.63 कोटिरूप्यकाणां मूल्ययुक्तं आईपीओ 16 तः 18 जुलाई पर्यन्तं निवेशार्थं उद्घाटितम्। अस्य आईपीओ निवेशकैः सामान्यं प्रत्युत्तरं दत्तम्, येन कारणेन समग्रतः 4.08 गुणं सब्स्क्रिप्शनम् जातम्।
अत्र, क्वालिफाइड् इन्स्टिट्यूशनल् बायर्स् (QIB) इत्यस्य आरक्षितं भागं 2.57 गुणं, नन-इन्स्टिट्यूशनल् इन्वेस्टर्स् (NII) इत्यस्य भागं 8.86 गुणं च सब्स्क्राइब् कृतम्।एवमेव, रिटेल इन्वेस्टर्स भागे 2.29 गुणं सब्स्क्रिप्शनम् जातम्।
अस्मिन् आईपीओ अन्तर्गतं 137.02 कोटिरूप्यकाणां नव्याः अंशाः प्रकाशिताः। तदन्ये च ₹10 नाममूल्ययुक्ताः दश लक्ष अंशाः ऑफर् फॉर् सेल् विंडो द्वारा विक्रयिताः।एतेषु नव्येषु अंशेषु द्वारा संगृहीतं वित्तं, पुरातनं ऋणं परिहार्य, कार्यशीलराशेः-आवश्यकताः पूर्णीकर्तुं, सामान्यं कॉर्पोरेट् उद्देश्ये च उपयुज्यते।
यदि तस्या: वित्तीयस्थितिः विश्लियते, तर्हि प्रॉस्पेक्टस इत्यस्मिन् प्रदत्तदत्तानुसारं, तस्या: वित्तीयसामर्थ्यं सततं वर्धमानं दृश्यते।वित्तवर्षे 2022–23 तस्या: शुद्धलाभः ₹13.03 कोटिरूप्यकाणि, 2023–24 वर्षे ₹16.60 कोटयः, 2024–25 तु ₹23.11 कोटिरूप्यकाणि इति वर्धितः।
एतेषु कालखण्डेषु, तस्या: वार्षिकचक्रवृद्धिदरः 30 प्रतिशतं अधिगतवान्, येन राजस्वम् ₹238.36 कोटिरूप्यकाणि इत्येतत् प्राप्तम्।
हिन्दुस्थान समाचार / ANSHU GUPTA