क्षेत्रं कार्यं कर्तुं गतस्य कृषकस्य लब्धः शवः
कानपुरम्, 24 जुलाईमासः(हि.स.)।बिल्हौरथानाक्षेत्रे खोजनपुरग्रामे कस्यचित् कर्षकस्य शरीरं गुरुवासरे कस्यचित् क्षेत्रे स्थितं दृष्टम्। ग्रामवासिनां सूचनया पुलिसदला घटनास्थलं प्राप्त्य फील्डयूनिट्सहितं साक्ष्यानि संगृह्य शवस्य शवविच्छेदनं कर्तुं प्रेषितव
बिल्हौर थाना की फ़ाइल फोटो


कानपुरम्, 24 जुलाईमासः(हि.स.)।बिल्हौरथानाक्षेत्रे खोजनपुरग्रामे कस्यचित् कर्षकस्य शरीरं गुरुवासरे कस्यचित् क्षेत्रे स्थितं दृष्टम्। ग्रामवासिनां सूचनया पुलिसदला घटनास्थलं प्राप्त्य फील्डयूनिट्सहितं साक्ष्यानि संगृह्य शवस्य शवविच्छेदनं कर्तुं प्रेषितवन्तः। ततः परं प्रकरणस्य अनुसन्धानं प्रारब्धम्।

खुर्दखोजनपुरग्रामनिवासी सोनेलाल (वयः ४५) कृषिकर्मणा स्वपरिवारस्य पालनपोषणं कुर्वन्ति स्म। गृहे पत्नी छुन्नीदेवी, पुत्रः आकाशः, चत्वारः पुत्र्यः — नेहा, गोल्डी, संध्या, कंचन च सन्ति। सम्बन्धिनः अवदन् यत् सोनेलाल बुधवासरे क्षेत्रेषु कर्मकर्तुं गतः आसीत्। रात्रौ चिरकालात् अनन्तरं अपि गृहं प्रत्यागतः न अभवत्। गुरुवासरे प्रातःकाले ग्रामवासिनः तस्य शवं क्षेत्रे स्थितम् अपश्यन्। शीघ्रं ते घटनां पुलिसं प्राकाशयन्।

पुलिसदलं त्वरितं घटनास्थलं प्राप्तम्। तत्रैव फोरेंसिक्-दलं आहूय साक्ष्यानि सम्यग् संगृहीतानि। सम्बन्धिनः अस्य हत्यायाः आरोपं कृतवन्तः। प्रारम्भिकान्वेषणे मृतस्य शरीरे कस्मिंश्चित् प्रकारस्य आघातचिह्नं न प्राप्तम्।

बिल्हौरक्षेत्रस्य सहायकचौकीप्रभारी अमरनाथयादवेन उक्तं यत् शवस्य प्राप्तेः सूचनां लब्ध्वा पुलिसदलं घटनास्थलं प्राप्तम्। ततः शवं शवविच्छेदनार्थं प्रेषितम्। सम्बन्धिनां लिखित-प्रार्थनापत्रस्य आधारं कृत्वा विधिसम्मतं अग्रिमं कार्यं क्रियते इति च ते उक्तवन्तः।

हिन्दुस्थान समाचार