Enter your Email Address to subscribe to our newsletters
मुंबई,24 जुलाईमासः (हि.स.)।महाराष्ट्रराज्यस्य प्रत्येकजिलायां तन्त्रविज्ञानशिक्षायाः प्रवेशप्रक्रियां पारदर्शितापूर्णां कर्तुं तथा आवश्यकं मार्गदर्शनं दातुं 'विद्यार्थिसहायककेन्द्रस्य' स्थापना भविष्यति इति सूचना उच्चतन्त्रविज्ञानशिक्षामन्त्री चन्द्रकान्तपाटिलेन प्रदत्ता। मन्त्रीपाटिलस्य अध्यक्षतायां राज्यसामान्यप्रवेशपरीक्षाप्रकोष्ठस्य समीक्षासभा आयोजिताभूत्। अस्मिन् सभायां सम्बन्धितविभागानां वरिष्ठाधिकारी उपस्थिताः आसन्।
पाटिलमहोदयः उक्तवान् यत् राज्ये तन्त्रविज्ञानसम्बद्धानां पाठ्यक्रमाणां प्रवेशप्रक्रियायां छात्राणां सहायतार्थं संगणकसुविधाभिः युक्तानि 'विद्यार्थिसहायककेन्द्राणि' स्थापितानि भवन्ति। एते केन्द्रे प्रत्येकजिलस्य द्वयोः प्रतिष्ठितयोः अभियान्त्रिकीमहाविद्यालययोः सञ्चालितानि भविष्यन्ति। एषां केन्द्राणां मुख्यभूमिका अस्ति — छात्रेभ्यः प्रवेशप्रक्रियायाः जानकारीं दातुं, ऑनलाइन-आवेदनस्य पूरणकाले तान्त्रिकसहाय्यं प्रदातुं, विविधशङ्कानां समाधानं च कर्तुं।
मन्त्रीपाटिलेन उक्तं यत् एतेषां केन्द्राणां साहाय्येन शैक्षिकवर्षे २०२५–२६ आरभ्यमानानां विविधव्यवसायिक-उच्चशिक्षापाठ्यक्रमाणां प्रवेशप्रक्रिया सुगमत्वेन सम्पद्यते। एते केन्द्राणि छात्रेभ्यः आवेदनप्रक्रियायां, आवश्यकदस्तावेजानां प्रमाणीकरणे, परामर्शे मार्गदर्शने च सहाय्यं दास्यन्ति।
---------------
हिन्दुस्थान समाचार