Enter your Email Address to subscribe to our newsletters
दमोहः, 25 जुलाईमासः (हि.स.)। बाल-अधिकार-रक्षण-आयोगस्य सदस्यद्वयं ओङ्कारसिंहः डॉ. निवेदिता शर्मा च 27 जुलाईदिनाङ्के रात्रौ अष्टवादने दमोहनगरम् आगमिष्यतः। तौ रात्रौ सर्किट्-हाउस् दमोह इत्यत्र विश्रान्तिं करिष्यतः।
एते सदस्यद्वयं 28 जुलाईदिनाङ्के आयोगेन स्वसंज्ञानतः गृहीतानां प्रकरणानां समाधानाय आयोज्यमाने समीक्षा-सभायाम् भागं गृह्णीतः। 29 जुलाईदिनाङ्के प्रातः अष्टवादने दमोहनगरात् छतरपुरनगरं प्रति प्रस्थानं करिष्यतः।
---------------
हिन्दुस्थान समाचार