Enter your Email Address to subscribe to our newsletters
पटना, 25 जुलाईमासः (हि.स.)। बिहारराज्यस्य राजधानीसहितं अन्येषु जनपदेषु सम्प्रति व्याप्ततया जातायाम् उष्णतायां जनानां किञ्चन विश्रान्तिः प्राप्ता। गुरुवासरे रात्रौ जाता वृष्टिः पटनानगरस्य वातावरणे परिवर्तनं कृतवती। यद्यपि स्पर्शोष्णता (उमसः) अद्यापि विद्यमाना अस्ति। पटनानगरे अद्य प्रातःकालात् एव मेघाः व्याप्ताः सन्ति तथा च मध्यगौरवर्णा लघु-वृष्टिः च विरामं विरामं कृत्वा प्रवर्तमानास्ति। एतेषु मध्ये मौसमविभागेन सूचना प्रदत्ता यत् बंगाल-उपसागरे सञ्जातं निम्न-दाब क्षेत्रं वातावरणे महत्त्वपूर्णं परिवर्तनं करिष्यति।
मौसम-विज्ञान-केंद्रस्य (पटना) अनुुसारं एषः निम्न-दाब क्षेत्रं शीघ्रतया सक्रियं जातम् अस्ति। यस्य प्रभावेन आगामि 24 घण्टेषु पटना-समीपवर्ती-प्रदेशेषु च मेघ-आवरणं भविष्यति तथा लघु-मध्यम-वृष्टिः अपि सम्भाव्यते। एवञ्च, बेगूसराय, समस्तीपुर, खगड़िया, कैमूर, रोहतास्, औरंगाबाद, गया, नवादा, बांका, जमुई इत्येषु दशसु जनपदेषु अतिवृष्टेः सचेतना प्रसारिता। एतस्मिन् अवधौ तापमानं 3 तः 5 डिग्री सेल्सियस्-पर्यन्तं न्यूनं भविष्यति इति सम्भावना अस्ति, येन जनानां स्पर्शोष्णतायाः (उमसः) किञ्चन विश्रान्तिः भविष्यति।
---------------
हिन्दुस्थान समाचार