Enter your Email Address to subscribe to our newsletters
-'वॉरियर' जातः ऋषभ पंतः, डकेटः क्रॉली च शतकात् अवशिष्टौ
मैनचेस्टरम्, 25 जुलाईमासः (हि.स.)।मैनचेस्टरनगर्यां भारत-इंग्लैण्डयोः मध्ये सञ्चालितायाः टेस्ट्–स्पर्धायाः द्वितीयदिनस्य समापनपर्यन्तं मेजबान् (इंग्लैण्ड) टीमेन द्वौ विकेटौ नष्टौ कृत्वा 225 धावनानि (रन्स्) सञ्चितानि। अद्यापि अपि इंग्लैण्ड् प्रथमपार्यां भारतात् 133 धावनैः न्यूनम् अस्ति। स्तम्प्स्-समये जो रूट् 11 धावनानि, ऑली पोप् 20 धावनानि कृत्वा अविजितौ एव स्थितौ।
भारतस्य प्रथमपर्याये 358 धावनांकाः। भारतेन दिनस्य आरम्भः 264/4 इत्यस्मात् कृतः, किन्तु शीघ्रमेव रवीन्द्रजडेजा (20) पातितः। अनन्तरं वाशिङ्ग्टनसुन्दरः शार्दूलठाकुरः च मिलित्वा 48 धावनानां महत्वपूर्णसहभागिता प्रदत्तवन्तौ। शार्दूलः तीव्रं क्रीडनप्रदर्शनं कृत्वा 41 धावनानि अर्जयन्, बेन् स्टोक्स् द्वारा वाह्यगमनशीलायां गोल्यां पतितः।
सुन्दरः धैर्येण क्रीडन् 90 गोळ्येषु 27 धावनानि कृतवान्, किन्तु दीर्घकालं स्थातुं न शक्तः। टेस्ट्–प्रथमप्रवेशे अंशुलकम्बोजः खाता अपि न उद्घाट्य एव पतितः। भारतस्य अन्तिमचत्वारः विकेट् केवलं 21 धावनमात्रस्य मध्ये पतिताः। एवं भारतस्य प्रथमपारी 358 धावनपर्यन्तं समाप्ता।
इंग्लैण्डस्य पक्षे कप्तानः बेन् स्टोक्स् पञ्चविकेट्स् प्राप्तवान्, जोफ्राआर्चरः त्रयाणि विकेट्स् अपि लब्धवान्। लियाम् डॉसनः क्रिस् वोक्स् च एकैकं विकेट् अपि अर्जितवन्तौ।
डकॅट्–क्रॉलीयोः तूर्णगति-क्रीडा
प्रतिउत्तरे इंग्लैण्ड् ‘बैजबॉल्’–शैलीना क्रीडाम् आरब्धवती। बेन् डकॅट्, जैक् क्रॉली च भारतीयगोलन्दाजान् प्रति आक्रामकं रूढिं प्रदत्तवन्तौ, च प्रथमविकेटाय 166 धावनानि संयोजितवन्तौ। डकॅट् 94 धावनानि कृत्वा शतकात् च्युतः, क्रॉली 84 धावनपर्यन्तं क्रीडितवान्। क्रॉलीं रवीन्द्रजडेजा, डकॅटं अंशुलकम्बोजः पतितवन्तौ। अंशुलस्य एषः प्रथमः अन्तरराष्ट्रीयविकेट् आसीत्।
पन्तः वीरवत् क्रीडितवान्
द्वितीयदिने अपि ऋषभपन्तः चर्चायां स्थितः, यः अङ्गुष्ठे भग्नतायां सतीं अपि स्थित्याः उपेक्षां कृत्वा क्रीडितवान्। तस्य जुझारुपूर्णं क्रीडनं सर्वेषां मनः आकर्षितवान्, च भारतं सम्मानार्हं स्कोरे प्राप्तुं सहायं कृतवान्।
स्पर्धायां रोमाञ्चस्य स्थिति
१६६ धावनसंयुक्तस्य आरम्भिकसहभागितायाः अनन्तरं भारतस्य गोलन्दाजैः पुनरागमनं कृत्वा ३१ धावनस्य अन्तरालस्य मध्ये द्वौ प्रमुखौ विकेटौ अपहृतौ। अधुना स्पर्धा समभावे एव दृश्यते। तृतीयदिने भारतस्य प्रयासः भवति यत् इंग्लैण्डं न्यूनतमस्कोरे रोद्धुं यत् च द्वितीयपार्यां अग्रता प्राप्तुं शक्येत।
--------------------
हिन्दुस्थान समाचार