ओडिशाराज्ये मयूरभञ्जजनपदे अतिवृष्टेः चेतावन्याः कारणेन अद्य सर्वे विद्यालयाः सम्पुटिताः
भुवनेश्वरम् 25 जुलाईमासः (हि.स.)।भारतीयमौसमविज्ञानविभागेन मयूरभञ्जजनपदस्य कृते यत् अतिवृष्टेः पूर्वचेतावनीं प्रदत्तम्, तस्य सन्दर्भे जनपदप्रशासनम् अद्य (२५ जुलै) दिनाङ्के सर्वान् सरकारी-निजीयौ विद्यालयौ सम्पुटयितुं निर्णयं कृतवान्। एषः निर्णयः बंगाल
ओडिशाराज्ये मयूरभञ्जजनपदे अतिवृष्टेः चेतावन्याः कारणेन अद्य सर्वे विद्यालयाः सम्पुटिताः


भुवनेश्वरम् 25 जुलाईमासः (हि.स.)।भारतीयमौसमविज्ञानविभागेन मयूरभञ्जजनपदस्य कृते यत् अतिवृष्टेः पूर्वचेतावनीं प्रदत्तम्, तस्य सन्दर्भे जनपदप्रशासनम् अद्य (२५ जुलै) दिनाङ्के सर्वान् सरकारी-निजीयौ विद्यालयौ सम्पुटयितुं निर्णयं कृतवान्।

एषः निर्णयः बंगालसागरस्थं गभीरं निम्नदाबक्षेत्रं दृष्ट्वा गृहीतः। आगामिषु द्वादश घण्टासु जनपदे अतीववृष्टेः सम्भावना वर्तते इत्यतः मौसमविभागेन मयूरभञ्जजनपदस्य कृते 'लाल-संकेतः' (रेड अलर्ट्) अपि प्रदत्तः।

जनपद-कलेक्टर द्वारा प्रकाशितेन आदेशेन सर्वे विद्यालयाः निर्देशिताः यत् छात्रावासेषु निवसन्तः छात्राः यदि कच्चगृहेषु वसन्ति, तर्हि ते त्वरितं सुरक्षितेषु पक्कगृहेषु स्थापनीयाः। तस्मादेव च भग्नानि जीर्णानि वा कक्षाणि न उपयोजनीयानि इत्यपि निर्देशः दत्तः, यत् केनचित् दुर्घटनायाः सम्भवः न भवेत्।

---------------

हिन्दुस्थान समाचार