Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 25 जुलाईमासः (हि.स.)।केन्द्रसर्वकारः मणिपुरराज्ये षण्मासपर्यन्तं राष्ट्रपति शासनस्य विस्तारं कर्तुं सज्जा वर्तते। अस्य विषये राज्यसभायां राष्ट्रपति शासनस्य षण्मासपर्यन्तविस्तारे सम्बन्धिनी सैद्धान्तिकी अनुमतिः प्राप्ता अस्ति। अधुना एषः प्रस्तावः राज्यसभायां चर्चार्थं प्रस्तुतः भविष्यति। अस्य चर्चायाः कृते निश्चिततिथिर्न निर्धारितेति, किन्तु शीघ्रमेव एषः विषयः सभायां प्रस्तूयते इति अपेक्ष्यते।
राज्यसभायाः बुलेटिन् अनुसारं गृहमन्त्री सह च सहकारितामन्त्री अमितशाह-महोदयेन अस्य विषये संकल्पस्य सूचना प्रदत्ता या च स्वीकृता। संकल्पे उक्तं यत्—
एषः सदनः राष्ट्रपति द्वारा संविधानस्य अनुच्छेद 356 अंतर्गतं मणिपुरराज्ये 13 फरवरी 2025 तमे दिने प्रकाशितां उद्घोषणां 13 अगस्त 2025 तः प्रारभ्य षण्मासपर्यन्तं पुनः प्रवृत्तिं कर्तुं अनुमोदयति।
गौरवणीयं यत्— राज्यस्य मुख्यमन्त्रिणः एन् बीरेनसिंहस्य पदत्यागानन्तरं केन्द्रसरकारेण 13 फरवरी 2025 तमे दिने संविधानस्य अनुच्छेद 356 अनुसारं मणिपुरे राष्ट्रपति शासनं प्रवर्तितं आसीत्। एतस्य शासनस्य षण्मासपर्यन्तं कालः 13 अगस्ते पूर्णः भविष्यति। राज्ये दीर्घकालात् प्रचलिताय अशान्तये च प्रशासनिकदुर्बलतायै च कारणत्वेन केन्द्रेण एषा निर्णयोऽभवत्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani