फर्जीरीत्या प्रविष्टा द्वितीयपत्नी, ग्रामसचिवाय प्रेषिता सूचना
- पञ्चदशदिनेषु याचितं विवाहस्य प्रमाणं, निरीक्षणे सम्मुखे आगतः जन्मतिथेः दोषः औरैया, 26 जुलाईमासः (हि. स.)।उत्तरप्रदेशराज्यस्य औरैया-जनपदस्य अजीतमल्-ब्लॉके स्थिते रामनगर-ग्रामे एकस्य मृतपुरुषस्य खतौन्यां गुढ़ी देवी इत्यस्याः नाम फर्जीरीत्या प्रविष्
फर्जीरीत्या प्रविष्टा द्वितीयपत्नी, ग्रामसचिवाय प्रेषिता सूचना


- पञ्चदशदिनेषु याचितं विवाहस्य प्रमाणं, निरीक्षणे सम्मुखे आगतः जन्मतिथेः दोषः

औरैया, 26 जुलाईमासः (हि. स.)।उत्तरप्रदेशराज्यस्य औरैया-जनपदस्य अजीतमल्-ब्लॉके स्थिते रामनगर-ग्रामे एकस्य मृतपुरुषस्य खतौन्यां गुढ़ी देवी इत्यस्याः नाम फर्जीरीत्या प्रविष्टम्। तस्मिन् प्रकरणे प्रशासनं कठोरतां प्रदर्श्य तदैव तत्कालीनग्रामसचिवं कर्मचाऱिणश्च सूचनां प्रेषितवान्। पञ्चदशदिनेषु विवाहप्रमाणं साक्ष्यरूपेण प्रस्तु्तव्यम्, अन्यथा विधिसम्मत कार्यवाही भविष्यति।

प्राप्तविवरणानुसारम्, मृतस्य व्यक्तेः प्रथमा भार्या वर्षे 2021 मध्ये दिवंगता आसीत्। तस्याः किञ्चित्कालानन्तरमेव गुढ़ीदेवी नाम्न्याः स्त्रियाः नाम खतौन्यां प्रविष्टम्, यस्मात् मृतस्य प्रथमा भार्यायाः सम्बन्धिनः आपत्तिं व्यक्तवन्तः तथा च प्रकरणस्य परीक्षायाः याचनाम् अपि कृतवन्तः।

जन्मतिथौ फर्जीविवरणम्

परीक्षायाम् प्रकाशम् आगतम् यत् गुढ़ीदेव्याः जन्मतिथिः 1 जनवरी 1984 इति प्रविष्टा अस्ति, किन्तु तस्याः त्रयः पुत्राः – 1989, 1990, 1992 – एतेषां वर्षेषु जाताः इति दर्शितम्। अनेन कारणेन अयं संदेहः सुष्ठु जातः यत् स्त्रिया तस्मिन्न् समये एवम् वृद्धिः नासीत् यत् सा एतेषां बालकानाम् जन्मदात्री स्यात्। प्रतिवेदने अपि उक्तम् यत् नामप्रवेशसमये सा गर्भवती आसीत्।

ग्रामसचिवः उत्तरदायी अभवत्

खंडविकासाधिकारी अतुल यादव उक्तवान् –

फर्जीरीत्या नामप्रवेशप्रकरणे सम्बन्धिनः कर्मचाऱिणः प्रति नोटिस् प्रेषिता। यदि वैधविवाहस्य प्रमाणं न प्रस्तुतम्, तर्हि नाम खतौन्यां निष्कास्यते तथा अनुशासनात्मककार्यवाही अपि भविष्यति।

तत्कालीनसचिवं अपि एतत् सूचितं कृतम् यत् – कस्मिन् प्रमाणे आधृत्य स्त्रियाः नाम परिवार-पंजीकायाम् तथा खतौन्यां योजितम्। यदि ते प्रमाणं प्रदातुं अशक्ताः, तर्हि तेषां विरुद्धे अपि कठोरकार्यवाही करिष्यते।

प्रशासनं विधवायाः नाम खतौन्यां प्रविष्टिं प्रति इदानीं गंभीरम् अभवत् तथा स्पष्टं कृतम् यत् विधिप्रमाणं विना कोऽपि नाम सरकारीदस्तावेजेषु योजनीयः नास्ति। अस्य प्रकरणस्य अन्तिमसुनवणी आगामिनां पञ्चदशदिनानां मध्ये भविष्यति।

---------------

हिन्दुस्थान समाचार