Enter your Email Address to subscribe to our newsletters
भोपालम् , 27 जुलाईमासः (हि.स.)।भारतीयजनतापक्षस्य (भा.ज.पा.) पदाधिकारीणः, जनप्रतिनिधयः च कार्यकर्तारश्च राज्यस्य सर्वेषु मण्डलेषु अद्य (रविवासरे) सामान्यजनैः सह प्रधानमन्त्रिणः नरेन्द्रमोदीनः ‘‘मन की बात’’ कार्यक्रमं श्रोष्यन्ति।
भाजपाया: प्रदेशाध्यक्षः हेमन्तखण्डेलवालः प्रातःकाले ११ वादने बैतूलजनपदस्य घोड़ाडोंगरीविधानसभायाः पाढरमण्डलस्य ग्रामे बजरवाडा इत्यस्मिन मण्डले, मण्डलसंख्या ३३९, तत्र मण्डलकार्यकर्तृभिः सह ‘‘मन की बात’’ कार्यक्रमं श्रोष्यति।
एवमेव क्षेत्रीयसंगठनमहामन्त्री अजयजामवालः रायसेनजनपदस्य सांचीविधानसभायाः खरवईमण्डलस्य मण्डले, मण्डलसंख्या ८८, च प्रदेशसंगठनमहामन्त्री हितानन्दः भोपाल-ग्रामीणजनपदस्य हर्राखेडामण्डलस्य गुनगामण्डलस्य मण्डलसंख्या २०९ इत्यस्मिन् स्थले प्रधानमन्त्रिणः ‘‘मन की बात’’ कार्यक्रमं श्रोष्यन्ति।
हिन्दुस्थान समाचार