मुख्यमंत्री रेखा गुप्ता शालीमार बागस्य फाटकस्थवसतेः अकरोत् भ्रमणम्
नवदिल्ली, 27 जुलाईमासः (हि.स.)।रविवासरे दिल्लीराज्यस्य मुख्यमन्त्रिणी रेखा गुप्ता शालिमारबागप्रदेशे स्थितायाः फाटकवालीझुग्ग्याः निरीक्षणं कृत्वा तत्रवर्तमानैः जनैः सह संवादं कृतवती। एषा सूचना तस्याः मुख्यमन्त्रिण्याः एक्स इत्यस्मिन् सामाजिकमाध्यमे सा
दिल्ली के शालीमार बाग स्थित फाटक वाली झुग्गी में रविवार को लोगों से संवाद करती मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 27 जुलाईमासः (हि.स.)।रविवासरे दिल्लीराज्यस्य मुख्यमन्त्रिणी रेखा गुप्ता शालिमारबागप्रदेशे स्थितायाः फाटकवालीझुग्ग्याः निरीक्षणं कृत्वा तत्रवर्तमानैः जनैः सह संवादं कृतवती। एषा सूचना तस्याः मुख्यमन्त्रिण्याः एक्स इत्यस्मिन् सामाजिकमाध्यमे साझा कृता दृश्यश्रृंखला (video) द्वारा प्रकटिता।

मुख्यमन्त्रिणी रेखा गुप्ता जनैः सह संवादं कुर्वन्ती पूर्वसर्वकारेषु झुग्गीनिवासिनां तिरस्कारस्य आरोपं कृतवती। सा अवदत् यत् — न तु कांग्रेसदलस्य, न तु आमजनदलेन वसतिवासिनां विकासविषये, न च तेषां कृते दृढगृहदाने विषये कदापि चिन्तनं कृतम्।

मुख्यमन्त्रिण्याः वचने — प्रधानमन्त्रिणा नरेन्द्रमोदिना वसतिनिवासिनां भ्रातृभगिनीभ्यः दृढे, सुरक्षिते च गृहे दातुं यः संकल्पः कृतः, सः सामाजिकन्यायस्य, गौरवयुक्तजीवनस्य च संकल्पः अस्ति।

दिल्लीराज्ये भारतीयजनतापक्षस्य सरकार झुग्गीवासिनां विकासाय, तेषां कृते दृढगृहदाने च संकल्पस्य पूर्णतायै निरन्तरं परिश्रमेण यतते।

सा अपि अवदत् — वयं सर्वे जानिमहि यत् यावत्कालं पूर्वसर्वकाराः अवर्तन्त, तावत्कालं न तेषां स्पष्टा नीति आसीत्, न च इच्छाशक्तिः। परन्तु अधुना परिस्थितयः परिवर्तिताः। दिल्लीसरकार प्रधानमन्त्रिणः वसतिवासिनः दृढगृहप्रदानस्य संकल्पं सिध्दिपर्यन्तं नेतुं प्रतिश्रुत्या कार्यं करोति। वसतिं विकाससङ्गतां कर्तुम्, तत्र वसतिपरिवाराणां स्थैर्यं सम्मानं च दातुम्, एषा एव अस्माकं सर्वकारस्य प्रथमा प्राथमिकता अस्ति।

---------------

हिन्दुस्थान समाचार