प्रतापखातायां कांग्रेसपक्षेण हमारा बूथ हमारी मांग कार्यक्रमः आयोजितः
कोकराझारः (असमः), 27 जुलाईमासः (हि.स.)।कोकराझारजनपदस्य अन्तर्गतं फकीराग्रामखण्डकाँग्रेस्सङ्घे प्रतापखातामण्डलस्य जगदीश-मुस्लिम-उद्यानमध्ये शनिवासरे रात्रौ अस्माकं मण्डलः, अस्माकं मागाः इति काँग्रेस्पक्षस्य कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे असमप
प्रतापखातायां कांग्रेसपक्षेण हमारा बूथ हमारी मांग कार्यक्रमः आयोजितः


कोकराझारः (असमः), 27 जुलाईमासः (हि.स.)।कोकराझारजनपदस्य अन्तर्गतं फकीराग्रामखण्डकाँग्रेस्सङ्घे प्रतापखातामण्डलस्य जगदीश-मुस्लिम-उद्यानमध्ये शनिवासरे रात्रौ अस्माकं मण्डलः, अस्माकं मागाः इति काँग्रेस्पक्षस्य कार्यक्रमः आयोजितः।

अस्मिन् कार्यक्रमे असमप्रदेशकाँग्रेस्पक्षाध्यक्षस्य गौरवगोगोई महोदयस्य निर्देशानुसारं समग्रराज्ये कार्यक्रमाः आयोज्यन्ते।

अस्मिन कोकराझारजनपदे स्थितकाँग्रेस्पक्षस्य माध्यमविभागस्य समन्वायकः नूरजमाल्शेख्, जनपदस्य सक्रियकार्यकर्तारः जहीरुल्मण्डलः, जगदैमण्डलः, अध्यक्षः मोजम्मिल्हक्, मण्डलाध्यक्षः अमीरहुसैनः, सचिवः अमीनुल् इस्लाम्, महिला-मण्डलस्य अध्यक्षी, सचिवी च, तथा ग्रामस्य द्विशताधिकाः काँग्रेस्समर्थकाः अपि अस्मिन् कार्यक्रमे भागं स्वीकृतवन्तः।

अस्मिन सभायां क्षेत्रे विद्यमानानां सडकपथानां, गल्याः, नाल-नालिकानां, जलसिंचनस्य, बेरोजगारीसमस्यायाः, वेंचरविद्यालयानां प्रान्तीयकरणस्य, शिक्षके नियुक्तेः, मूल्यम्वृद्धिनिरोधस्य च समस्यासु विस्तृतचर्चा कृता।

एवं प्रकारेण निर्वाचनकालसन्निधौ काँग्रेस्पक्षः विभिन्नकार्यक्रमैः स्वसङ्गठनिकाधारं सुदृढं कर्तुं यत्नं करोति।

हिन्दुस्थान समाचार