रीवाः द्वि दिवसीय रीजनल पर्यटन कॉन्क्लेव इत्यस्याद्य समापनम्
भोपालम्, 27 जुलाईमासः (हि.स.)।रीवानगरे कृष्णा-राजकपूर-सभागारे आयोज्यमानस्य द्विदिवसीय-प्रादेशिक-पर्यटन-सम्मेलनस्य समापनं अद्य (रविवासरे) मुख्यमन्त्रिणः डॉ॰ मोहनयादवस्य उपस्थितौ भविष्यति। सम्मेलनस्य समापनसत्रे त्रयः पृथक्-पृथक् दलाः पर्यटनविकासस्य वि
रीवा में दो दिवसीय ‘रीजनल टूरिज्म कॉन्क्लेव’


भोपालम्, 27 जुलाईमासः (हि.स.)।रीवानगरे कृष्णा-राजकपूर-सभागारे आयोज्यमानस्य द्विदिवसीय-प्रादेशिक-पर्यटन-सम्मेलनस्य समापनं अद्य (रविवासरे) मुख्यमन्त्रिणः डॉ॰ मोहनयादवस्य उपस्थितौ भविष्यति।

सम्मेलनस्य समापनसत्रे त्रयः पृथक्-पृथक् दलाः पर्यटनविकासस्य विभिन्नविषयेषु चर्चां करिष्यन्ति।

एतेनैव दलैः मध्यान्हद्वयोत्तरं पुरवाजलप्रपातम्, बसामन्मामा गौ-वन्यविहार-अभयारण्यं, रीवानगरे बघेल-संग्रहालय-दुर्गं च महामृत्युञ्जय-मन्दिरं च परिभ्रम्यते।उल्लेखनीयं यत् मुख्यमन्त्री डॉ॰ मोहनयादवः शनिवासरे सायं सम्मेलनस्य उद्घाटनं कृतवान्। तेन समारोहे उपस्थितं पर्यटनसम्बद्धं जनसमूहं सम्बोधित्य पर्यटनव्यवसाये निवेशार्थं आमन्त्रितं कृतम्।अद्य प्रादेशिक-पर्यटन-सम्मेलनस्य समापनं भविष्यति।

हिन्दुस्थान समाचार