राजस्थाने अतिवृष्टेः चरणं प्रवर्तते, अद्य चतुर्षु जनपदेषु सचेतना प्रसारिता
जयपुरम्, २८ जुलाईमासः (हि.स.)। बंगाल-सागर-खाड्यां निष्पन्नं निम्नदाबस्थ-संस्थानस्य प्रभावेन राजस्थाने अतिवृष्टेः चरणं प्रवर्तमानम् अस्ति। जयपुरे स्थितं ऋतु-विज्ञान-केंद्रं सोमवासरे बारां, झालावाड:, भरतपुरम्, करौली च एषां जनपदेषु अतिवृष्टेः कारणेन साव
बारिश, rain प्रतीकात्मक फोटो


जयपुरम्, २८ जुलाईमासः (हि.स.)। बंगाल-सागर-खाड्यां निष्पन्नं निम्नदाबस्थ-संस्थानस्य प्रभावेन राजस्थाने अतिवृष्टेः चरणं प्रवर्तमानम् अस्ति। जयपुरे स्थितं ऋतु-विज्ञान-केंद्रं सोमवासरे बारां, झालावाड:, भरतपुरम्, करौली च एषां जनपदेषु अतिवृष्टेः कारणेन सावधान-सूचना प्रसारिता। तथा दौसा, धौलपुर:, अल्वर:, सवाई माधोपुर:, बूंदी, कोटा, चित्तौडगढ:, प्रतापगढ:, बांसवाडा, डूंगरपुरश्च एषु जनपदेषु संभाव्य-सूचना च घोषिता। जैसलमेरं बाड़मेरं त्यक्त्वा अन्येषां सर्वेषां जनपदेषु न्यूनसंभाव्य-सूचना प्रसारिता।

रविवासरे , राज्यस्य बहुषु भागेषु द्वे षट् अंशपर्यन्तं वर्षा जाता। पाली, सिरोही, प्रतापगढ:, बारां इत्येषां प्रदेशेषु जलनिवृत्तिः जाता। वर्षाया कारणेन प्रवहिणीनाम् उदकवाहिनीनां च तीव्रप्रवाहः जातः। बीसलपुरबन्धे प्रविष्टजलस्य वृद्धेः कारणात् षट् द्वाराणि उद्घाट्य ७२,१२० क्यूसेक् जलं विसृष्टम्।

झालावाड-जनपदे २८ जुलाईतः २ अगस्तपर्यन्तं, धौलपुरे २८ जुलाईतः ३० जुलाईपर्यन्तं, कोटा, चित्तौडगढ:, टोंक्, भीलवाडा, बांसवाडा, बारां, डूंगरपुरम् च २८-२९ जुलाईपर्यन्तं, अजमेरे २८ जुलाईदिने पाठशालासु आङ्गनवाडिषु च अवकाशः घोषितः।

झालावाडस्य मनोहर- आरक्षकक्षेत्रे खेजडाकपुरा ग्रामे रविवासरे शासकीयपाठशालायाः भित्तिः पतिता। पूर्वं तत्रैव २५ जुलाईदिने पाठशालाया: छत्रपतनेन सप्त बालकानां मृत्युः जातः। पिड़ावायाः दाताग्रामे रविवासरे पाठशालायाः कक्षस्य छत्रम् अपि पतितम्। उदयपुरे वल्लभनगरमण्डले रूपावलीग्रामस्थिते शासकीयपाठशालायाः भित्तिः अपतत्, परं रविवासर-अवकाशस्य कारणेन जनहानिः न जातः। चूरू जनपदस्य हरदेसरग्रामे शासकीयपाठशालायाः जीर्णप्रकोष्ठस्य पतनेन कश्चन श्रमिकः आहतः अभवत्।

बारां-अटरू प्रदेशे १४३ मि.मी., पाली-बाली क्षेत्रे ८७ मि.मी., प्रतापगढ्-सुहागपुरे ७५ मि.मी., सिरोही-शिवगञ्जे ६३ मि.मी., पाली-सुमेरपुरे ६४ मि.मी. इत्यादिषु स्थानेषु अपि अतिवृष्टिः अभिलिखिता।

जयपुर-ऋतु-केंद्रस्य निदेशकः श्री राधेश्यामः शर्मणा उक्तं यत्, बंगालसागरे जातं निम्नदाबस्थ-संस्थानं अधुना पूर्वमध्यप्रदेशं प्राप्तम् अस्ति। सोमवासरे तत् क्षीणीकृत्य ' सुस्पष्टलघुदाबप्रणाली इति रूपेण परिवर्तनीयम् अस्ति। तत् पुनः राजस्थाने निम्नदाबस्थां प्राप्तं भविष्यति। ते अवदन् यत्, ट्रफ्-रेखा कोटा बीकानेर-मार्गेण गच्छति, अतः सोमवासरे राज्यस्य दक्षिणपूर्वे पूर्वभागेषु च अतीव वर्षा सम्भाव्यते।

ते अवदन् यत्, २९-३० जुलाईदिनाङ्कयोः अपि राज्यस्य अनेकेषु भागेषु अतिवृष्टेः सम्भावना विद्यते।

राज्ये १ जूनतः २६ जुलाईपर्यन्तं सामान्यतः १८७.६ मि.मी. वर्षा भवति। किन्तु अस्मिन् वर्षे या सामान्यतः ८९ प्रतिशतेन अधिका अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA