पंजाबे 31 जुलाई दिनाङ्के उधम सिंहस्य हुतात्मदिवसे अवकाशस्य उद्घोषणा
- भवानीगढ़-सुनाममार्गस्य नाम अधुना हुतात्मा उधम सिंह मार्गः भविष्यति चंडीगढम्, 29 जुलाईमासः (हि.स.)।पञ्जाबराज्ये ३१ जुलै दिनाङ्के शहीदउधमसिंहस्य शहादतिदिवसस्य निमित्तं राजपत्रित-अवकाशस्य घोषणा सम्पन्ना। अस्मिन दिवसे सम्पूर्णे राज्ये सरकारीकार्यालया
अमन अराेड़ा


- भवानीगढ़-सुनाममार्गस्य नाम अधुना हुतात्मा उधम सिंह मार्गः भविष्यति

चंडीगढम्, 29 जुलाईमासः (हि.स.)।पञ्जाबराज्ये ३१ जुलै दिनाङ्के शहीदउधमसिंहस्य शहादतिदिवसस्य निमित्तं राजपत्रित-अवकाशस्य घोषणा सम्पन्ना। अस्मिन दिवसे सम्पूर्णे राज्ये सरकारीकार्यालयाः, पाठशालाः, महाविद्यालयाश्च निरुद्धाः भविष्यन्ति। मङ्गलवासरे शासनम् एतस्मिन् विषये आधिकारिकसूचनां प्रकाशितवदत्।

पञ्जाबराज्यस्य मन्त्रिवर्यः, आम्-आदमी-पक्षस्य प्रदेशाध्यक्षः च अमन-अरोड़ा इत्यनेन चण्डीगढ़नगरे कथितं यत्, गुरुवासरे मुख्यमंत्री भगवंत-मानः पक्षनेता अरविन्द-केजरीवालः च मिलित्वा अस्य मार्गस्य नामकरणं करिष्यतः। भवानीगढ़-सुनाम-मार्गस्य नाम यतः शहीद-उधमसिंहमार्गः इति भविष्यति।

अमन-अरोड़ा इत्यनेन उक्तं यत्, शहीद-उधमसिंहस्य स्वातन्त्र्यसङ्ग्रामे महान् योगदानं आसीत्। तस्य साहसम् अखिलदेशेन ऋणतया स्मृतमस्ति, यत् कदापि न परिहर्तुं शक्यते। उधमसिंहस्य जन्म सुनामे अभवत्। अतो हि कंबोजसमाजस्य एषा दीर्घकालीनं प्रार्थना आसीत् यत् तस्य शहादतिदिवसे केवलं सुनामे न, अपि तु सम्पूर्णे पञ्जाबराज्ये अपि अवकाशः घोषितव्यः। यतः तस्मिन् दिवसे राज्ये विविधेषु स्थलेषु शिविराणि समारोहाः च आयोज्यन्ते।

---------------

हिन्दुस्थान समाचार