बिहारे आय प्रमाणपत्राय आवेदने नाम 'सैमसंग', पितुर्नाम 'आईफोन', मातुर्नाम 'स्मार्टफोन' अलिखत्
पटना, 30 जुलाईमासः (हि.स.)।बिहारराज्ये प्रमाणपत्रनिर्माणप्रकरणे प्रवर्तमानविवादे पुनरपि नवः विवादः सम्प्रविष्टः। जहानाबादजनपदे कस्यचित् आयप्रमाणपत्राय कृतसर्वेक्षणे “सैमसंग” इति नाम, “आईफोन” इति पितुः नाम, “स्मार्टफोन” इति मातुः नाम, “गड्ढा” इत्यपि न
नाम सैमसंगए पिता का नाम स्मार्टफोन वाले आय प्रमाण पत्र की फोटो


पटना, 30 जुलाईमासः (हि.स.)।बिहारराज्ये प्रमाणपत्रनिर्माणप्रकरणे प्रवर्तमानविवादे पुनरपि नवः विवादः सम्प्रविष्टः। जहानाबादजनपदे कस्यचित् आयप्रमाणपत्राय कृतसर्वेक्षणे “सैमसंग” इति नाम, “आईफोन” इति पितुः नाम, “स्मार्टफोन” इति मातुः नाम, “गड्ढा” इत्यपि निवासस्थानं लिखितं दृष्टम्।

एषः विषयः जहानाबादस्य मोदनगञ्ज-अञ्चलस्य अस्ति, यत्र कश्चन आवेदनकर्ता आयप्रमाणपत्राय ऑनलाइन आवेदनं कृतवान्। अयं प्रपत्रः यदा अञ्चलकर्मचाऱिणां समीपं प्राप्तः, तदा ते विस्मिताः अभवन्। तत्क्षणमेव अनेन विषये अञ्चलाधिकारी मोहम्मद आसिफ हुसैन इत्यस्मै सूचितम्। तेन एषः कृत्यः शासनव्यवस्थायाः अपमानरूपः कार्यविघ्नजनकश्च इत्युक्तम्।

तेन स्पष्टीकृतं यत् एषा शरारतः जानबूझं कृतिः अस्ति इति। दोषिनं पहचान्य, तस्य विरुद्धं कठोरं विधिक्रमः पालनीयः इति च उक्तम्। अस्य संदर्भे साइबर-थान्यां प्राथमिकी (प्रथमसूचना-रिपोर्ट्) लेखनाय आवेदनं समर्पितं कृतम्।

पुलिसाधिकारीणां कथनानुसार, तकनीकी अनुसन्धानं (जैसे - आईपी ट्रैकिंग) द्वारा ज्ञातुं प्रयत्नः क्रियते यत् अयं प्रपत्रः कुत्र, केन यन्त्रे वा जालेन वा प्रेषितम्।

अञ्चलाधिकारिणा प्रोक्तं यत् ऑनलाइन-सुविधाया उद्देश्यः जनानाम् सहजतया सेवायाः प्रदायनं भवति, किन्तु केचन जनाः एतत् विनोदरूपेण स्वीकुर्वन्ति। एतेन न केवलं कर्मनियोजनं बाध्यते, अपि तु संसाधनानां दुरुपयोगः अपि भवति।एषा घटना प्रथमा नास्ति। किञ्चित् दिनानि पूर्वं, पट्नायाः मसौढी-प्रखण्डकार्यालये 'कुक्कुरस्य' नाम्ना आवासप्रमाणपत्रं अपि निर्गतं यः प्रसङ्गः प्रशासनस्य कार्यशैलीम् आलोचनायाः केन्द्रे स्थितवान्।साम्प्रतिकं जहानाबादवृत्तान्तं सरकारस्य डिजिटल-प्रशासनव्यवस्थायाः गम्भीरतां च साइबर-समीक्षणस्य आवश्यकता च पुनरपि प्रकाशयति।

---------------

हिन्दुस्थान समाचार