Enter your Email Address to subscribe to our newsletters

लखनऊ, 31 जुलाईमासः (हि.स.)।उत्तरप्रदेशराज्याय नूतनः मुख्यसचिवः नियुक्तः। उत्तरप्रदेशसरकारया १९८९-कक्षायाः वरिष्ठः भा.प्र.से. अधिकारी एस्.पी. गोयल इत्यस्य उत्तरप्रदेशराज्यस्य नूतनः मुख्यसचिवः इति नियुक्तिपत्रं जारी कृतम्। ततः परं एव गुरुवासरे एस्.पी. गोयल महोदयः लोकभवनस्थं मुख्यसचिवकार्यालयं गत्वा पदभारं स्वीकृतवन्। निवर्तमानः मुख्यसचिवः मनोजकुमारसिंहः तस्मै औपचारिकरूपेण कार्यभारं समर्पितवान्।
लोकभवने पदभारग्रहणोत्तरं मुख्यसचिवेन एस्.पी. गोयलेन उक्तम्— प्रथमतः अहं मुख्यमंत्रीयोगिनाथस्य प्रति कृतज्ञता ज्ञापयामि। तेन मां राज्यसेवायै अवसरः प्रदत्तः। मुख्यमंत्रीस्य प्राथमिकतायाः— शून्यसहिष्णुता (Zero Tolerance), औद्योगिकविकासः इत्यादिकानां विषयेषु मनोजकुमारसिंहेन मुख्यसचिवरूपेण यः आदर्शः स्थापितः, तेन सह समानगत्याः कार्यं कर्तुं मम प्रयत्नः भविष्यति। अहं यत्नं करिष्यामि यत्, दलभावनया सह उत्तरप्रदेशस्य विकासप्रयासान् शीघ्रं गत्यै नेतुं शक्नुयाम्।
पदग्रहणसमये प्रमुखसचिवगृहम् एवं सूचना विभागस्य संजयप्रसादः, प्रमुखसचिवः संस्कृति विभागस्य मुकेशमेश्रामः, वरिष्ठः भा.प्र.से. अधिकारी आलोककुमारः, लखनौनगरस्य जिलाधिकारी विशाख महोदयः च अन्ये च वरिष्ठाः अधिकारीणः तत्र उपस्थिता आसन्। सर्वे अधिकारीणः तं शुभकामनाः दत्तवन्तः।
विशेषतया ज्ञातव्यम् यत्, उत्तरप्रदेशे भारतीयजनतापक्षस्य योगीसरकारागमनोपरान्तं एस्.पी. गोयलमहाभागस्य भूमिका अत्यन्तं महत्वपूर्णा जातासीत्। सः दीर्घकालं यावत् मुख्यमंत्रीप्रधानसचिवपदे नियुक्तः आसीत्। तस्मिन् पदे एव स्थित्वा सः अपरमुख्यसचिवपदं प्राप्तवान्। अस्मिन् काले सः मुख्यमंत्रीसचिवपदेन सह नागरिकविमाननम्, राज्यसम्पत्तिः, प्रोटोकॉल् विभागश्च इत्येषां दायित्वं वहति स्म। अधुना तं उत्तरप्रदेशस्य मुख्यसचिवरूपेण नियुक्तः कृतवान्।एतेन सह वरिष्ठभा.प्र.से. अधिकारी संजयप्रसादस्य दायित्वे अपि परिवर्तनं कृतम्। तं मुख्यमंत्रीप्रधानसचिवः, प्रोटोकॉल्, गृहम्, गोपनम्, वीजा-पासपोर्ट्, सतर्कता, सूचना-जनसंपर्कविभागः च इत्येषां प्रमुखसचिवपदे नियुक्तः कृतः। तस्मै राज्यसम्पत्तेः नागरिकविमाननविभागयोः अपि अतिरिक्तदायित्वं समर्पितम्।
हिन्दुस्थान समाचार