जबलपुरचिकित्साविद्यालयस्य  आहतसहायकप्राध्यापिकायाः रात्रौ दीर्घकालिकं शस्त्रकर्म जातम् – गृहं प्रविश्य छुरिकया आघातः कृतः
मध्यप्रदेशे, ३१ जुलाईमासः (हि.स.)। गढ़ा- आराक्षकक्षेत्रे स्थिते जबलपुरचिकित्साशास्त्रमहाविद्यालयस्य सहायकप्राध्यापिकायाः गृहे जलकुम्भं वहन् आगतः कश्चन पुरुषः आकस्मिकं छुरिकया तां प्रहारयामास। अस्मिन् आघाते सा प्राध्यापिका गम्भीरतया आहताभवत्, या गम्भी
महिला प्रोफेसर पर धारदार चाकू से हमला


मध्यप्रदेशे, ३१ जुलाईमासः (हि.स.)। गढ़ा- आराक्षकक्षेत्रे स्थिते जबलपुरचिकित्साशास्त्रमहाविद्यालयस्य सहायकप्राध्यापिकायाः गृहे जलकुम्भं वहन् आगतः कश्चन पुरुषः आकस्मिकं छुरिकया तां प्रहारयामास। अस्मिन् आघाते सा प्राध्यापिका गम्भीरतया आहताभवत्, या गम्भीरावस्थायां चिकित्सालये प्रविष्टा कारिता। तस्याः स्थितिं दृष्ट्वा रात्रौ विशेषचिकित्सकदलस्य नेतृत्वे शस्त्रकर्म सम्पन्नम्। दिवसे अपि एवं घटनां श्रुत्वा जनाः भयभीताः अभवन्।

प्राध्यापिका नीलिमासिंह: नाम्ना स्वगृहे एका एव वसति स्म। घटनायाः समये अपि सा गृहे एका आसीत्। तस्मिन् समये माण्डवाबस्त्यां निवसन् मुकुल लकहार इति जनः जलकुम्भं वहित्वा आगतः। सः कुम्भं स्थाप्य गृहस्थं किञ्चिदपि वस्तुं चोरयितुं प्रवृत्तः। तदा नीलिमासिंह: तं दृष्ट्वा शब्दं कृत्वा साहाय्यं याचितवती। ततः मुकुलः छुरिकां निष्कास्य तां वारं वारं प्रहर्तुं आरब्धवान्। तस्य आघातैः नीलिमायाः वक्षसि च उदरे च गम्भीरव्रणाः जाताः, सा भूमौ पतिता च। शब्दं श्रुत्वा पार्श्वे स्थिताः जनाः आगत्य पलायमानं दोषिणं धृत्वा तं दण्डनीतिं नीतवन्तः।

नीलिमासिंह: इत्यस्याः चिकित्सिकायाः उदरे छुरिकया एकादशवाराः जाताः, यत्र किञ्चन व्रणाः अतीव गम्भीराः सन्ति। वक्षसि अपि गम्भीरप्रहाराः दृश्यन्ते। घटनायाः सूचना प्राप्त्वा आरक्षककर्मिणः आगत्य तं दोषिणं गृहीत्वा आरक्षकक्षेत्रं नीतवन्तः, तथा आहतां प्राध्यापिकां चिकित्सालये प्रवेशितवन्तः।

एतां वार्तां श्रुत्वा चिकित्साशास्त्रमहाविद्यालयस्य अनेके चिकित्सकाः, जनाश्च समागच्छन्। चिकित्सा-प्रशासनस्य सूचना प्राप्त्वा अधीक्षकः डॉ. अरविन्दशर्मा, उपाधीक्षिका डॉ. ऋचाशर्मा या च आईएमए अध्यक्षा अपि अस्ति, तौ सर्वान् चिकित्सकान् त्वरितं उपचाराय आज्ञापितवन्तौ।

डीन डॉ. नवनीतसक्सेना अपि शीघ्रं आकस्मिकविभागे आगतः। सर्वे चिकित्सकाः आपत्कालविभागे नीलिमायाः परीक्षणं कृतवन्तः। कर्तव्यपर्यायायां चिकित्सिका डॉ. मोनिकाकपूरमहोदया चिकित्सान्यायिकायाः कार्यम् अकुर्वन्।

चिकित्साविभागाध्यक्षा डॉ. ऋतुगुप्ता तथा अन्ये चिकित्सकबान्धवाः अपि उपस्थिताः। शल्यविभागात् डॉ. विनीत, डॉ. योगेन्द्र वाडीवा च, सीटीवीएस विभागात् डॉ. निमेषराय:, डॉ. अवधेशसिंहकुशवाहा , तथा कनिष्ठचिकित्सकाः अपि नीलिमायाः उपचाराय सम्मिलिताः आसन्।

सीटी-स्कैनपरीक्षणे अनन्तरं ज्ञातं यत् वक्षसि उदरे च गम्भीरव्रणाः सन्ति, अतः तां त्वरितं शस्त्रकक्षे नीतवत्याः रात्रौ दीर्घशस्त्रकर्म अकुर्वन्।

हिन्दुस्थान समाचार / ANSHU GUPTA