जबलपुरतो रायपुरस्य मध्ये प्रथमं इंटरसिटी ट्रेनयानं तृतीय अगस्ततः चलिष्यति
रायपुरम्, 31 जुलाईमासः (हि.स.)।जबलपुरनगरे स्थिते मदन्महल्-स्थानीयकनिष्ठरेलस्थानकात् छत्तीसगढराजधानी रायपुरं प्रति नवीनम् अन्तरनगरीय-तीव्रगामिनी रेलयानसेवा प्रतिदिनं प्रचलिष्यति। एषा सेवा २०२५ तमस्य वर्षस्य अगस्त्-मासस्य तृतीयदिनाङ्कतः आरभ्य प्रवर्तिष
जबलपुरतो रायपुरस्य मध्ये प्रथमं इंटरसिटी ट्रेनयानं तृतीय अगस्ततः चलिष्यति


रायपुरम्, 31 जुलाईमासः (हि.स.)।जबलपुरनगरे स्थिते मदन्महल्-स्थानीयकनिष्ठरेलस्थानकात् छत्तीसगढराजधानी रायपुरं प्रति नवीनम् अन्तरनगरीय-तीव्रगामिनी रेलयानसेवा प्रतिदिनं प्रचलिष्यति। एषा सेवा २०२५ तमस्य वर्षस्य अगस्त्-मासस्य तृतीयदिनाङ्कतः आरभ्य प्रवर्तिष्यते। अस्य विषये रेलमण्डलेन बुधवासरे सायं काले अधिकृतसूचना अपि प्रकाशिताभवत्। एतेन निर्णयेन जबलपुर-रायपुरनगरयोः मध्ये यात्रां कुर्वतां यात्रिकाणां कृते महान् उपकारः भविष्यति।

एषा नवीनान्तरनगरीय-एक्सप्रेस्-मदन्महल्ल् नाम रेलगा मदन्महल्-जबलपुरतः प्रातः ६:१० वादने प्रयाणं करिष्यति। बालाघाटं गोंडियानगरं च अतीत्य अपराह्णे १:५० वादने रायपुरं रेलस्थानकं प्राप्स्यति। पुनरागमने एषा एव रेलगा रायपुरतः अपराह्णे २:४५ वादने प्रस्थित्वा रात्रौ १०:३० वादने मदन्महल्-जबलपुरं आगमिष्यति।

एषा अन्तरनगरीय-तीव्रगामिनी रेलगा मदन्महल्-रायपुरयोः मध्ये यात्रां केवलं ६ घण्टाः ४० निमेषेषु सम्पादयिष्यति। वर्तमानकाले रायपुर-जबलपुरयोः मध्ये केवलं अमरकण्टक् एक्सप्रेस् इति एकमेव रेलयानं संचरति।

हिन्दुस्थान समाचार