राष्ट्रसेविकासमितेः चतुर्था संचालिका प्रमिलाताई निधनं प्राप्तवती
-संघप्रमुखः भागवतः, केन्द्रीयमन्त्री गडकरी च सहिताः सर्वे नेतारः शोकं प्रकटितवन्तः। नागपुरम्, 31 जुलाईमासः (हि.स.)। राष्ट्रसेविकासमितेः चतुर्था प्रमुखसंचालिका प्रमिलाताई मेढे गुरुवासरे निधनं प्राप्तवती। सा सप्तनवतिवर्षीयाऽभवत्। सा अत्रस्थे देवीअहि
प्रमिला ताई मेढे, पूर्व प्रधान संचालिका राष्ट्र सेविका समिती


-संघप्रमुखः भागवतः, केन्द्रीयमन्त्री गडकरी च सहिताः सर्वे नेतारः शोकं प्रकटितवन्तः।

नागपुरम्, 31 जुलाईमासः (हि.स.)।

राष्ट्रसेविकासमितेः चतुर्था प्रमुखसंचालिका प्रमिलाताई मेढे गुरुवासरे निधनं प्राप्तवती। सा सप्तनवतिवर्षीयाऽभवत्। सा अत्रस्थे देवीअहिल्यामन्दिरे प्रातः नववादने पञ्चमिनिटे अन्तिमं श्वासं गृहीता। सा गतत्रिमासपर्यन्तं वृद्धजन्यसमस्याभिः पीडिता आसीत्।

राष्ट्रसेविकासमितेः पदाधिकारीणां अनुसारं, तस्या: पार्थिवं शरीरं अन्तिमदर्शनाय अत्रस्थे धन्तोलिस्थिते देवीअहिल्यामन्दिरे स्थापितम् अस्ति। वर्षे 1965 तः आरभ्य देवीअहिल्यामन्दिरमेव तस्याः कार्यकेन्द्रम् आसीत्। तस्याः इच्छानुसारं तस्या: पार्थिवं शरीरं नागपुरस्य अखिलभारतीयआयुर्विज्ञानसंस्थानाय (AIIMS) शुक्रवासरे प्रातः अष्टवादने समर्पयिष्यते।

प्रमिलातायाः निधनसूचना प्राप्ते अनन्तरं राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवतः देवीअहिल्यामन्दिरकार्यालयं आगत्य श्रद्धाञ्जलिं अर्पितवान्। केन्द्रीयसडकपरिवहनमन्त्री नितिनगडकरी, केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहान च अन्ये च नेतारः तस्याः निधनं प्रति गाढं शोकं व्यक्तवन्तः।

प्रमिलामेढे इत्यस्या: जन्म 8 जून 1929 तमे दिने महाराष्ट्रस्य नन्दुरबार् इत्यस्मिन् स्थाने अभवत्। तस्मिन्काले बी.ए., बी.टी. पर्यन्तं शिक्षा प्राप्य नागपुरस्थिते सी.पी. एण्ड् बेरार् विद्यालये सा अध्यापनं कृतवती। ततः परं D.A.G.P.T. कार्यालये वरिष्ठलेखापरीक्षकपदे कार्यम् अकरोत्। बाल्यकालात् एव राष्ट्रसेविकासमित्या सह संबद्धा प्रमिलाताई तया आत्मनं समितेः कार्ये पूर्णतः समर्पितुम् निश्चयः कृतः। तया स्वेच्छया पदा निवृत्तिः गृहीता।

मौसी केल्कर् इत्यस्या: सह प्रमिलातया अखिलभारतभ्रमणं कृतम्। राष्ट्रसेविकासमित्यां तस्यै 1978 तः 2003 पर्यन्तं प्रमुखकार्यवाहिकायाः पदं प्राप्तम्। ततः फरवरी 2003 तमे मासे सा सह-प्रमुखसंचालिकायाः रूपेण नियुक्ता, 2006 तमे वर्षे प्रमुखसंचालिकापदे नियुक्ता च। 2006 तः 2012 पर्यन्तं सा प्रमुखसंचालिकायाः दायित्वं सम्यक् निर्वह्य, 20 जुलाई 2012 तमे दिने सा शांताक्कायै पदं समर्पितवती। सा राष्ट्रसेविकासमितेः कार्याय इंग्लैंड्, अमेरिका, कनाडा, श्रीलङ्का इत्यादिदेशेषु प्रवासं कृतवती। अमेरिकायाः प्रवासकाले न्यूजर्सी नगरे महापौरः तस्यै मानदनागरिकत्वं दत्तवान्। मुम्बाईस्थेन S.N.D.T. महिला-विश्वविद्यालयेन तस्यै D.Litt. इत्युपाधिः अपि समर्पिता आसीत्। यथेष्टं प्रमिलातायाः इच्छानुसारं शुक्रवासरे अगस्तमासस्य प्रथमे दिने प्रातः अष्टवादने तस्या: पार्थिवं शरीरं AIIMS अस्पतालाय समर्पयिष्यते।

केन्द्रीयमन्त्री नितिनगडकरी एक्स् इत्यस्मिन् पोस्टे लिखितवान् यत् प्रमिलामौस्याः निधनवार्ता श्रुत्वा अहं अतिदुःखितः। तस्यै श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् भारतदेशे समितेः कार्यं प्रसारयितुं तस्याः महानं योगदानं आसीत्। तस्याः जीवनं राष्ट्रभक्तेः च मातृशक्तिजागरणस्य च आदर्शरूपम् आसीत्। सा अध्यापिकायाः रूपेण, कर्मचारीण्या: रूपेण च समितेः शाखा, नगर, विभाग, प्रान्तस्तरेषु दायित्वं वहति स्म। प्रमुखकार्यवाहिकायाः रूपेण सा देश-विदेशयोः प्रवासं कृत्वा स्वयंसेविकाभिः संवादं कृतवती, समस्याः अपि समाधानं कृतवती। गडकरी महोदयः तस्याः मातृतुल्यं व्यक्तित्वं इत्येव वर्णयन् उक्तवान् यत् अस्माभिः एका मातृतुल्या विभूतिः हृता। एषा सामाजिकक्षेत्रे, स्वयंसेवकानां कृते च अपूरणीयहानिः अस्ति।

शिवराजसिंहचौहानः उक्तवान् यत् प्रमिलामौस्याः निधनवार्ता श्रुत्वा मम हृदयं अत्यन्तं व्यथितम्। मौस्याः वात्सल्येन कोट्यवधिकाः भगिन्यः राष्ट्रधर्मयोः सह आबद्धाः। तस्या: निर्मलान्तःकरणेन, तपस्या च, राष्ट्रभक्तेः ज्वालिका प्रज्वलिता। सा सदा उक्तवती यत् स्त्रीशक्तिः एव राष्ट्रस्य आधारशक्तिः अस्ति। सा सर्वं जीवनम् एतद्भावनया यापयत्। सः तस्या: चरणयोः श्रद्धाञ्जलिं समर्पयति।

बिहारराज्यस्य उपमुख्यमन्त्री विजयकुमारसिन्हा उक्तवान् यत् प्रमिलातायाः देवलोकगमनेन संघपरिवारः मातृतुल्यां प्रेरणां हृतवान्। तस्या: जीवनं राष्ट्रभक्तये सनातनमूल्यानां च समर्पितम् आसीत्। मध्यप्रदेशस्य खजुराहोनगरात् सांसदः वीडी शर्मा उक्तवान् यत् प्रमिलातायाः निधनवार्ता अतीव दुःखद् अस्ति। तस्या: जीवनं मातृभारत्याः सेवायै समर्पितम् आसीत्

---------

हिन्दुस्थान समाचार / ANSHU GUPTA