Enter your Email Address to subscribe to our newsletters
अररियाः, ५ जुलाईमासः (हि.स.)।
स्थानिके आरएसप्रदेशे स्थिते मोहिनीदेवी-स्मृति-विद्यालय-परिसरे विद्यालयस्य पञ्चविंशतितम-स्थापनोत्सवस्य अवसरे शनिवासरे प्रतिभासम्मानेन-सह- रक्तदानशिविरस्य आयोजनं कृतम्।
प्रतिभासम्मानसमारोहम् विद्यालयपरिसरे सम्पन्नम्, रक्तदानशिविरः तु मोहिनीदेवी-रूंगटा-चिकित्सालये आयोजितः।
समारोहस्य उद्घाटनं मुख्यातिथिना जनपदशिक्षाधिकारिणा श्रीमान्संजयकुमारेन, विशेषातिथिना कटिहारात् आगतेन रामकृष्ण- उद्देश्यसंस्थायाः सचिवेन स्वामिना महेश्वरानन्देन, अतिथिभिः—पूर्वप्रधानाचार्यः शुभेन्दुमुखर्जी, वैद्यराजः डॉ बी.एन. झा, उपनगरसभापतिः गौतमसाहः, प्रजापिता-ब्रह्माकुमारी-संस्थायाः संचालिका उर्मिला भगिनी, कृपाशङ्करद्विवेदी, वित्तविभागकर्मचारी संजयगुप्तः, विजयकेडिया, राजेशाग्रवालः, रामप्रकाशभाटिया, सुशीलगुप्तः च तथा संस्थायाः संचालकः डॉ संजयप्रधानः इत्येते संयुक्तरूपेण दीपप्रज्वलनं कृत्वा कृतवन्तः।
अवसरे दशमी-द्वादशी-कक्षायायाम् उत्तीर्णानां विद्यार्थिनां विशिष्टप्रदर्शनं कृतवतां स्मृतिचिह्नैः उपहारैश्च सम्मानः कृतः। विद्यालयस्य कनीयकविद्यार्थिभिः स्वागतगीतम् नृत्यनाट्यम् च सादरं प्रस्तुतम्।
स्वागतभाषणं प्राचार्येण डॉ पराशरत्यागिना प्रदत्तम्। संचालकः डॉ संजयप्रधानः विद्यालयस्य प्रारम्भकालस्य वर्तमानस्य च संघर्षान् उपलब्धीं च अवेदयत्।
जनपदशिक्षाधिकारी श्री संजयकुमारः छात्रान् सम्बोध्य अवदत् यत् स्वप्रतिभां समुन्नयितुं जागरूकतया प्रयत्नः करणीयः।
विशेषातिथि: स्वामी महेश्वरानन्दजी महाराजः छात्रान् प्रति प्रेरणां प्रदत्तवान् यत् लक्ष्यम् निश्चित्य, एकाग्रतया सातत्येन च परिश्रमं कृत्वा तं साधयन्तु।
एवमेव स्थापनोत्सवस्य निमित्ते मोहिनीदेवी-रूंगटा-चिकित्सालये रक्तदानशिविरः अपि आयोजितः।
तत्र द्वाविंशतिः अधिकजनाः प्रयोजनवतीनां सहायतायै रक्तदानं कृतवन्तः। जनपदाधिकारी श्रीअनिलकुमारः, आरक्षकाधीक्षकः अञ्जनीकुमारश्च दीपप्रज्वलनं कृत्वा शिविरस्य उद्घाटनं कृतवन्तौ।
तैः सह अन्ये अधिकारिणः चिकित्सकाश्च अपि उपस्थिताः। सर्वेभ्यः पुष्पगुच्छैः आदरेण च सम्मानः अर्पितः। रक्तदातृभ्यः चक्रिकायुक्त-झोलकैः सम्मानः कृतः।
हिन्दुस्थान समाचार / ANSHU GUPTA