मुख्यमंत्री सुक्खूः ध्वजं दर्शित्वा प्रस्थापितानि 20 ई-टैक्सियानानि, युवभ्यो लप्स्यते स्वजीविकवसरः
शिमला, 05 जुलाईमासः (हि.स.)।शनिवासरे मुख्यमंत्री सुखविन्द्रसिंहः सुक्खू इत्यनेन हिमाचलप्रदेशस्य सचिवालय-परिसरात् “राजीवगान्धीस्वरोजगारप्रारम्भयोजना” (आर्.जी.एस्.एस्.वाय्.) अन्तर्गतं विंशतिः ई-ट्याक्सी-यानानि हरितपताका-दर्शनपूर्वकं प्रेषितानि। एषा योज
मुख्यमंत्री सम्बोधित करते हुए


शिमला, 05 जुलाईमासः (हि.स.)।शनिवासरे मुख्यमंत्री सुखविन्द्रसिंहः सुक्खू इत्यनेन हिमाचलप्रदेशस्य सचिवालय-परिसरात् “राजीवगान्धीस्वरोजगारप्रारम्भयोजना” (आर्.जी.एस्.एस्.वाय्.) अन्तर्गतं विंशतिः ई-ट्याक्सी-यानानि हरितपताका-दर्शनपूर्वकं प्रेषितानि। एषा योजना राज्य-सरकारस्य पर्यावरणहितैषिण्याः चिन्तनस्य यूनां च आत्मनिर्भरतायै प्रयाणस्य एकः महत्त्वपूर्णः पादप्रेक्षः अस्ति।

मुख्यमंत्रिणा सूचितं यत् अस्याम् योजनायाम् पात्रयुवकानां कृते ई-ट्याक्सी क्रयाय समग्रव्ययस्य पञ्चाशत्-शतांशरूपेण अनुदानं प्रदीयते। अद्यावधि ५९ युवानां कृते ४.२२ कोटिरूप्यकाणां अनुदानं वितरितं जातम्। अपरं ६१ लाभार्थिनः अपि शीघ्रं अनुदानं प्राप्स्यन्ति इति अपि सः अवदत्।

सः अवदत् यत् अस्याः योजनायाः द्वारा राज्यस्य युवानां कृते स्थायि-आयस्य साधनं सुलभं जातम्। तान् सर्वकारीकार्यालयैः संयोज्य पञ्चवर्षपर्यन्तं निश्चित-आयस्य सुनिश्चितता अपि क्रियते। योजनायाः अन्तर्गतं द्विवर्षपर्यन्तं विस्तारस्य अपि प्रावधानं अस्ति, येन दीर्घकालीनं स्वजीविकां सम्भवम् इति स्यात्।

मुख्यमंत्रिणा उद्घोषितं यत् अस्य योजनायाः द्वारा राज्यस्य वित्तीयभारस्य न्यूनीकरणे अपि सहायता लभ्यते। ठाकुरसुखविन्द्रसिंहसुक्खू इत्यनेन उक्तं यत् पर्यावरण-संरक्षणं प्राथमिक्य ग्रहण्वती सरकार नवानीतिं निर्माति। जलवायुपरिवर्तनस्य भीषणतां दृष्ट्वा ई-वाहनानि हरित-हाइड्रोजन-शक्तिरूपेण स्वच्छ-ऊर्जाविकल्पानाम् प्रोत्साहनं आवश्यकं जातम्। ई-ट्याक्सी-यानानाम् प्रोत्साहनं तस्याः नीतेः एकः अङ्गः अस्ति, यः प्रदूषण-निवारणे सहायकः भविष्यति।

सः अवदत् यत् प्रदेश-सरकारं केवलं सर्वकारस्य रीक्षेत्रे रोजगारस्य अवसरान् प्रदत्तवती न भवति, अपितु युवान् स्वरोजगारे अपि प्रेरयति। राज्य-इलेक्ट्रॉनिक्स-विकास-निगमस्य माध्यमेन विदेशेषु उत्तमार्थप्राप्तये रोजगारस्य अवसराः अन्विष्यन्ते। इदानीं निगमाय नियुक्तिसंस्था-रूपेण अनुज्ञापत्रं प्राप्तम्, तथा च सः विविधदेशेषु महावाणिज्यदूतावासैः सह समझौतकरोति। अनेन हिमाचलप्रदेशीययुवानां कृते विदेशेषु सुरक्षितं सम्मानजनिका च जीविकां प्राप्नुयात् इति मार्गः उद्घाट्यते।

मुख्यमंत्रिणा उक्तं यत् सरकारस्य निरन्तरप्रयत्नेन शिक्षाक्षेत्रे आरोग्यक्षेत्रे च सकारात्मकपरिवर्तनानि दृश्यन्ते। नव्यतया शिक्षाक्षेत्रे हिमाचलप्रदेशेन राष्ट्रीयस्तरे २१तमस्थानात् पञ्चमं स्थानं प्राप्तम्, यत् सरकारीविद्यालयेषु गुणवत्तायुक्तशिक्षायाः सुनिश्चित्यै सर्वकारस्य प्रतिबद्धतां दर्शयति।

स्वास्थ्यसेवानां क्षेत्रे सः अवदत् यत् प्रदेश-सरकारा राज्यस्य वैद्यकीयमहाविद्यालयेषु एम्स्-दिल्ली-प्रतिमायाम् अत्याधुनिक-सुविधानां विकासं करोति, येन सामान्यजनाय उत्तमा चिकित्सा-सेवा लभ्यते।

---------------

हिन्दुस्थान समाचार