उत्तरप्रदेशे योगिनः शासने सर्वासु गोशालासु गोपालवनस्य स्थापनं भविष्यति।
लखनऊ, ०५ जुलाई (हि.स.)।उत्तरप्रदेशस्य योगिशासनं सर्वासु गोशालासु गोपालवनस्य स्थापनं करिष्यति। विभागेन गोशालासु छायाप्रद-पशु- आहार-प्रजातीनां पादपानां रोपणस्य निर्देशः दत्तः। गोपालवनस्य स्थापनायां मुख्यशासकः गोरक्षपीठाधीश्वरः योगी आदित्यनाथः आरब्धस्य
योगी आदित्यनाथ


गोसेवा आयोग के अध्यक्ष श्याम बिहारी गुप्त


लखनऊ, ०५ जुलाई (हि.स.)।उत्तरप्रदेशस्य योगिशासनं सर्वासु गोशालासु गोपालवनस्य स्थापनं करिष्यति। विभागेन गोशालासु छायाप्रद-पशु- आहार-प्रजातीनां पादपानां रोपणस्य निर्देशः दत्तः। गोपालवनस्य स्थापनायां मुख्यशासकः गोरक्षपीठाधीश्वरः योगी आदित्यनाथः आरब्धस्य अभियानस्य संदर्भे सन्तसमाजः गोपालकवर्गश्च अपि सहभागीभूतः।

उत्तरप्रदेशस्य ग्राम्यप्रदेशे ६६१३ अस्थायी गोआश्रयकेन्द्राणि, ३८७ विस्तीर्ण-गोसंरक्षणकेन्द्राणि, ३०५ कांजीगृहाणि च, नगरीयप्रदेशे ३०३ कान्हा-गोआश्रयकेन्द्राणि इत्येतेषां संयोजनेन ७६०८ गोआश्रयस्थानानि सञ्चाल्यन्ते। एतेषु सर्वेषु गोपालवनस्य स्थापना अपि करिष्यते। सम्पूर्णवर्षे तत्र पादपारोपणं भविष्यति; तेषां संरक्षणाय अपि विशेषं ध्यानं दीयते। शासनम् निज-गोपालकान् अपि अनुरोधयति यत् ते अपि पादपान् रोपयन्तु।

भगवान् श्रीकृष्णः 'गोपाल:' इति ख्यातः। सः गोपालनं रक्षणं च कृतवान्। गौः निःस्वार्थभावेन जनाय विविधं लाभं ददाति। अतः योगिशासनम् अयं निर्णयं कृतवद् यत् गोशालासु वसतां पशूनां कृते छाया पशु - आहारश्च उपलब्ध्यर्थं प्रतिगोशालायां गोपालवनं स्थाप्यते।

महाभियानस्य अन्तर्गतं आदेशः निर्गतः यत् प्रभागाधीनासु सर्वासु गोशालासु गोपालवनं स्थापनीयम्, यत्र स्थलोपलब्ध्यानुसारं छायादायक- पशु- आहार-प्रजातीनां पादपानां रोपणं करणीयम्। गोपालवनस्य सफलतायाः रक्षणाय च यथोचितं प्रबन्धनं करणीयम्।

गोसेवा-परिषदः अध्यक्षः श्यामबिहारीगुप्तः उक्तवान् यत् गोसेवा-परिषदः वृक्षारोपण-महायोजनायाम् सहभागित्वाय सज्जः अस्ति। परिषदः द्वौ दिनौ पूर्वं जालमाध्यमद्वारा सम्पन्नायां सभायां अपि सम्मिलितवान्।

सर्वासु गोशालासु सहजनवृक्षः, पीपलवृक्षः, पाकड्वृक्षः, वटवृक्षः इत्यादिपादपानां रोपणाय बलं दत्तम्। एते छायादायकाः पादपाः गोशालायां वसतां गोवृषाणां कृते अत्युत्तमानि सन्ति।

नवमी जुलाईमासे मुख्यशासकयोगिनाथेन आरब्धे वृक्षारोपणमहायज्ञे २०२५, परिषद् अपि सम्पूर्णवर्षाकालपर्यन्तं वृक्षारोपणं करिष्यति, तेषां रक्षणाय च प्रयासं करिष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA