लालू यादवः 13तमे पर्याये राजदस्य राष्ट्रियः अध्यक्षः
पटना, 05 जुलाईमासः (हि.स.)।राष्ट्रीयजनतादलस्य (राजद) सर्वेच्चनेता श्रीलालूप्रसादयादवः शनिवासरे पुनः एकवारं पक्षस्य राष्ट्रीयाध्यक्षपदे अधिष्ठापितः। एषा तस्य त्रयोदशमी ताजपोशी अस्ति। तस्य कार्यकालः वर्ष २०२८ पर्यन्तम् भविष्यति।एतस्मिन् अवसरेऽस्मिन् पा
लालू यादव काे पाटी नेताआं के साथ मंच पर


पटना, 05 जुलाईमासः (हि.स.)।राष्ट्रीयजनतादलस्य (राजद) सर्वेच्चनेता श्रीलालूप्रसादयादवः शनिवासरे पुनः एकवारं पक्षस्य राष्ट्रीयाध्यक्षपदे अधिष्ठापितः। एषा तस्य त्रयोदशमी ताजपोशी अस्ति। तस्य कार्यकालः वर्ष २०२८ पर्यन्तम् भविष्यति।एतस्मिन् अवसरेऽस्मिन् पार्टीनेतृभिः तस्मै प्रमाणपत्रं पुष्पगुच्छं च समर्प्य राष्ट्रीयाध्यक्षत्वाय बधाई समर्पिता। राजधानीपटनायाम् अवस्थिते बापूसभागारे पक्षस्य राष्ट्रीयपरिषदायाः महत्वपूर्णं सम्मेलनम् सम्पद्यते। अस्य सभायाः अध्यक्षता पार्टीस्य राष्ट्रीयनिर्वाचनपदाधिकारी डॉ॰ रामचन्द्रपूर्वे कुर्वन्ति।एतः पूर्वं एव श्रीलालूप्रसादयादवस्य त्रयोदशवारं राष्ट्रीयाध्यक्षपदे निर्वाचितत्वं घोष्य प्रमाणपत्रेण पुष्पगुच्छेण च तस्य अभिनन्दनं कृतम्।श्रीलालूप्रसादयादवेन २३ जून २०२५ तमे दिनाङ्के अध्यक्षपदाय नामनिर्देशनपत्रं समर्पितम्। तस्मिन् विरुद्धं कश्चन अन्यः नामनिर्देशनं न कृतवान्। अतः सः निर्विरोधेन अध्यक्षपदे निर्वाचितः, यस्य औपचारिकघोषणा अपि क्रियता।पूर्वं चर्चायामासीत् यत् श्रीलालूप्रसादः स्वपुत्रं श्रीतेजस्वीयादवम् अध्यक्षपदे प्रतिष्ठापयिष्यति, किन्तु अधुना तस्य प्रतीक्षा कर्तव्या।एतस्मिन् सन्दर्भे श्रीतेजस्वीयादवः अवदत्— “लालू यादवेन द्वादशवारं यावत् पक्षस्य सफलं नेतृत्वं कृतम्। तेन सामाजिकन्यायस्य च निर्धनवर्गस्य च स्वरं राष्ट्रे उत्कर्षेण उद्घोषितम्। त्रयोदशवारं अध्यक्षपदे प्रतिष्ठितं पक्षस्य समस्तकार्यकर्तृवर्गस्य गौरवस्य विषयः अस्ति।श्रीलालूप्रसादयादवेन वर्षे १९९७ तमे 'जनतादल' इत्यस्मात् पृथग्भूय 'राष्ट्रीयजनतादल' इत्यस्य गठनं कृतम्, ततः प्रभृति स एव राष्ट्रियाध्यक्षपदे स्थितवान्। विगते अष्टाविंशतिवर्षेषु, तेन पार्टी अनेकविधानि उत्थानपतनानि अनुभव्यानि अपि, राष्ट्रस्तरे स्थैर्येण नेतृत्वं प्रदत्तम्।अस्य राष्ट्रियपरिषद्सभायाः सन्दर्भः आगामिबिहारविधानसभाचुनावानां तैयारीभिः अपि सम्बद्धः इति चर्च्यते।

---------------

हिन्दुस्थान समाचार