Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 5 जुलाईमासः (हि.स.)। दिल्लीसहितदेशस्य अनेकेषु भागेषु आगामिषु षट् दिनेषु भीमवृष्टेः अतीवभीमवृष्टेः च सम्भावना अस्ति।भारतवातावरणविज्ञानविभागस्य (IMD) अनुसारम्, शनिवासरे पूर्वमध्यप्रदेशे, रविवासरे हिमाचलप्रदेशे च अतीववृष्टेः प्रबलसंभावना अस्ति।रविवासरे सोमवासरे च मध्यमहानगरस्य (मध्य महाराष्ट्रस्य) घाटप्रदेशेषु पृथक् पृथक् स्थलेषु भीमवृष्टिः सम्भवति ।गतचतुर्विंशतिघण्टाभ्यन्तरे IMD द्वारा प्रकटितं यत्—पूर्वमध्यप्रदेशे कतिपये स्थलेषु भीमवृष्टिः अतीवभीमवृष्टिः च अभिलिखिता। तथा पूर्वराजस्थानं,पश्चिमउत्तरप्रदेशः,पश्चिममध्यप्रदेशः,मध्यमहाराष्ट्रस्य घाटप्रदेशाः,दक्षिणआन्तरिककर्नाटकम्—एतेषु प्रदेशेषु अपि 7–20 सेमी पर्यन्तं भीमवृष्टिः अभवत्।एवं च—कोंकण-गोवा,पश्चिमबङ्गः,पञ्जाबः,हरियाणाम्,जम्मूः,अरुणाचलप्रदेशः,असमः, मेघालयः,नगालैण्डः, ओडिशा,झारखण्डः,गुजरातराज्यम्,छत्तीसगढः,केरलम्,तटीयकर्नाटकम्—एतेषु च विविधेषु स्थलेषु 7–11 सेमी पर्यन्तं भीमवृष्टिः अभिलिखिता। तथैव—तमिळनाडु, आन्तरिककर्नाटकः, तटीयआन्ध्रप्रदेशः, तेलङ्गाणा, रायलसीमा, मध्यमहाराष्ट्रः, मराठवाडा, असमः, मेघालयः, पश्चिमउत्तरप्रदेशः, मध्यप्रदेशः, अण्डमान्-निकोबारद्वीपसमूहः, ओडिशा, कोंकणः, बिहारः, हिमाचलप्रदेशः, सौराष्ट्र-कच्छप्रदेशौ—एतेषु अपि 40-60 कि.मी. प्रति घण्टायाः वेगेन प्रचण्डवायवः सह तूफानः अभवत्।दिल्लीविषये विशेषपूर्वानुमानम् वातावरणविभागेन निगदितम् यत्—दिल्लीमध्ये अधिकतमतापमानं 34–36 डिग्री सेल्सियस्, न्यूनतमतापमानं 26–28 डिग्री सेल्सियस् पर्यन्तं भविष्यति।न्यूनतमतापमानं सामान्यतुल्यम्,अधिकतमतापमानं सामान्यात् 1–2 डिग्रीन्यूनं भविष्यति।प्रातःकाले मुख्यपृष्ठीयवायुः उत्तर-पश्चिमदिशातः 15 कि.मी./घण्टा वेगेन चलिष्यति।मध्यान्हे एषः वेगः घटित्वा दक्षिणदिशातः 10 कि.मी./घण्टा भविष्यति।सायं रात्रौ च वायुः पश्चिमदिशातः 15 कि.मी./घण्टा वेगेन प्रवेगं प्राप्स्यति।
---------------
हिन्दुस्थान समाचार