Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 6 जुलाईमासः (हि.स.)।
पतञ्जलिना अद्य इंडियन डेन्टल् एसोसिएशनस्य सन्निधौ “दन्तकान्ति-गण्डूष-तेलपलनम्” इत्याख्यं नवीनं उत्पादनं उद्घाटितम्। एषः उत्पादः आयुर्वेदग्रन्थेषु उल्लिखितायाः गण्डूषविधेः आधारस्य रूपेण प्रस्तूतः अस्ति। आयुर्वेदशास्त्रे अस्य गण्डूषस्य ‘दिनचर्या’ इत्यस्य अविभाज्यं अङ्गत्वेन उल्लेखः कृतः अस्ति।
स्वामिरामदेवः आचार्य बालकृष्णश्च सन्निहितौ स्थित्वा अस्य उद्घाटनसमारोहम् अखिलभारतीयदन्तचिकित्सक-संघटनस्य (इंडियन डेन्टल एसोसिएशन) उत्तराखण्डशाखायाः अध्यक्षेन डॉ. राजीव बंसलेन, सचिवेन डॉ. विश्वजीतेन वालियेन, कोषाध्यक्षेन डॉ. वैभव पाहवेण च स्वकराभ्यां सम्पन्नम्।
अस्मिन् अवसरे आचार्य बालकृष्णेन उक्तं यत् एषः उत्पादः पतञ्जलि-अनुसन्धान-संस्थायाः वैज्ञानिकैः त्रिवर्षपर्यन्तं निरन्तरं कृतस्य पुरुषार्थस्य, समर्पणस्य च फलम् अस्ति। ‘दन्तकान्ति-गण्डूष-तेलपलनम्’ नाम उत्पादः केवलं प्रतिदिनं कर्तव्या क्रिया नास्ति, अपि तु एषः आधुनिककाले अत्यावश्यकः चिकित्साशास्त्रीय-प्रक्रियायाः स्वरूपं धारयति।
तेन ज्ञापितं यत् चरकसंहितायां सुश्रुतसंहितायां च यः गण्डूषविधिः उल्लिखितः अस्ति, सः मुखस्वास्थ्यस्य मुख्यप्रक्रिया रूपेण मान्यः अस्ति। एषः पतञ्जल्याः “दन्तकान्ति” नामकशृङ्खलायाः नवीनतमं च अभिनवमपि उत्पादः अस्ति।
तेन एव उक्तं यत् अस्मिन् तेले तुम्बरू-तेलम् अस्ति, यः दन्तान् मसूनीश्च सुदृढान् करोति। लौङ्ग-तेलम् अपि अत्र सन्निहितम् अस्ति, यः दन्तपीडायाम् आरामं ददाति। पुदीनातेलम् अपि अत्र अस्ति, यः मुखदुर्गन्धं नाशयति। नीलगिरीतेलम् अत्र विद्यमानं, यः जीवाणुनाशकगुणैः युक्तः सन् जीवाणुनां वृद्धिं निरोद्धुं शक्नोति। तुलसीतेलस्य अपि यः गुणः—जीवाणुनाशकत्वं—सः दन्तान् स्फोटनात् संक्रमणेभ्यः च रक्षति।
अस्य उद्घाटनसमारोहे इंडियन डेन्टल एसोसिएशनसंबद्धः डॉ. गुरप्रीत ओबेरॉय, पतञ्जलि-चिकित्सालयस्य दन्तविभागाध्यक्षः डॉ. कुलदीप सिंह, पतञ्जलि-अनुसन्धान-संस्थायाः उपाध्यक्षः प्रमुखवैज्ञानिकश्च डॉ. अनुरागवार्ष्णेय च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार