ट्रंपः जापानं दक्षिण कोरियां च प्रति 25 प्रतिशतं करें स्थापितवान्
वाशिंगटनम्, 08 जुलाईमासः (हि.स.)।अमेरिकस्य राष्ट्रपतिना डोनाल्ड् ट्रम्पेन जापान् च दक्षिणकोरिया इत्येतयोः देशयोः विरुद्धं पञ्चविंशतिशतांशकरस्य (२५%) नवीनः शुल्कः उद्घोषितः। राष्ट्रपतिना त्रम्पेन ह्यः उद्घोषितं यत् प्रथम-अगस्त्-तिथेः आरभ्य एते देशौ स
अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप। फोटो-द न्यूयॉर्क टाइम्स


वाशिंगटनम्, 08 जुलाईमासः (हि.स.)।अमेरिकस्य राष्ट्रपतिना डोनाल्ड् ट्रम्पेन जापान् च दक्षिणकोरिया इत्येतयोः देशयोः विरुद्धं पञ्चविंशतिशतांशकरस्य (२५%) नवीनः शुल्कः उद्घोषितः।

राष्ट्रपतिना त्रम्पेन ह्यः उद्घोषितं यत् प्रथम-अगस्त्-तिथेः आरभ्य एते देशौ स्वनिर्यातवस्तूनि पञ्चविंशतिशतांशं शुल्कं दत्त्वा अमेरिका-देशे विक्रीतुं शक्नुतः।

एवमेव सः अनेकानां देशानां विरुद्धं आरूढः शुल्कः यः प्रथम-अगस्त-तिथेः प्रभावी भविष्यति, तस्य प्रभावकालः अपि विस्तारितः कृतः।

द न्यूयॉर्क् टाइम्स् इत्यस्य समाचारस्य अनुसारम्, एषा घोषणायाः अनन्तरं वाणिज्यबाजारे पतनं जातम्। निवेशकाः एतं करं अमेरिका-देशस्य द्वयोः प्रमुखयोः व्यापारसहभागिदेशयोः कृते अनुचितम् इति मत्वा चिन्तितवन्तः।

राष्ट्रपतिना ट्रम्पेन जापान-दक्षिणकोरियायोः विरुद्धं टैरिफ्-प्रस्तावात् अनन्तरं सामाजिकमाध्यमेषु अपि अनेकपत्राणि प्रकाशितानि।

तेषु अन्यदेशेषु उच्चकरारोपणविवरणमपि प्रकाशितं यन्म्यान्मार्, लाओस् इत्येतयोः कृते चत्वारिंशत्-शतांशः (४०%) करः,दक्षिण-अफ्रिकायाः कृते त्रिंशत्-शतांशः (३०%),कज़ाखस्तान्-मलेशिया इत्येतयोः कृते पञ्चविंशतिः शतांशः (२५%) करः आरोपितः। उल्लेखनीयम् यत् गत-त्रिमासपर्यन्तं ट्रम्प-प्रशासनम् द्वादशाधिकदेशैः सह व्यापारसमझौते कर्तुं यत्नं कुर्वन् आसीत्। एतावता, केवलं ब्रिटेन्-वियतनाम् इत्येताभ्यां देशाभ्यां सह प्रारम्भिकसमझौते कृताः सन्ति। जापान् च दक्षिणकोरियायः सह वार्तालापः अन्येषां देशानां तुलनया मन्दगत्या अग्रे अगच्छत्।

उभौ देशौ ट्रम्पप्रशासनेन सह समझौते कर्तुं संकोचं कुर्वन्तौ आस्ताम्, कारणं यत् ते भयभीताः यत् भविष्ये पुनः उच्चतरः शुल्कः अपि आरोपितः स्यात्।

---------------

हिन्दुस्थान समाचार