Enter your Email Address to subscribe to our newsletters
जयपुरम्, 01 अगस्तमासः (हि.स.)।राजस्थानराज्ये अस्मिन् वर्षे जुलैमासे सम्पन्ना वृष्टिः विगतिः ६९ वर्षाणां अभिलेखं अतिक्रान्तवती। अस्मिन् राज्ये जुलैमासे औसततया २८५ मि.मी. वृष्टिः अभिलिखिता या १९५६ तमवर्षात् परं सर्वाधिकं अस्ति। १९५६ तमे वर्षे जुलैमासे ३०८ मि.मी. वृष्टिः जातासीत्। अनवरतं तीव्रा वर्षा सततः सम्पद्यमाना राज्यस्य अनेकेषु भागेषु जनजीवनम् अस्तव्यस्तं कृतवती। जलनिवृत्तिः, आप्लवः, मार्गाणां भग्नावस्था च दृश्यन्ते स्म।
वातावरणकेन्द्रेण जयपुरे स्थितेन शुक्रवासरे षट् जनपदेषु मध्यमात् तीव्रपर्यन्तं वर्षायाः ‘पीतः चेतावनी’ इति प्रकाशितम्। अतिवृष्टेः सम्भावनां प्रति दृष्ट्वा राज्यस्य षोडश जनपदेषु पाठशालानां विश्रान्तिः घोषितः। एषु कोटा, भरतपुरम्, अजमेरम्, धौलपुरम्, सीकरम्, चूरू, श्रीगङ्गानगरम्, हनुमानगढः च अन्तर्भवन्ति। तथैव झालावाड्, बारां, टोंक्, डीग्, जैसलमेरम्, बीकानेरम्, नागौर्, कोटपूतली-बहरोड़ इत्येषु जनपदेषु १-२ अगस्ततिथिषु विद्यालयाः न संचालयिष्यन्ते।वातावरणविभागेन अगस्तमासे अपि सामान्यतः अधिकवृष्टेः सम्भावना सूचिता। जयपुरम्, अजमेरम्, कोटा, भरतपुरम्, बीकानेरम् इत्यादिषु जनपदेषु मानसूनस्य तीव्रता निरन्तरा भविष्यतीति अपेक्ष्यते।
धौलपुरजनपदे चम्बलनद्याः जलस्तरवृद्धेः कारणात् ३१ जुलैतिथौ सैनिकान् आपत्कालीन सहाय्यार्थं आहूतवन्तः। चम्बलतीरे स्थितानां ग्रामाणां क्षेत्राणां च जलमग्नता दृष्टा। पार्वतीबन्धस्य चत्वारः द्वाराः उद्घाटिताः। टोंकजनपदे बीसलपुरबन्धे अपि जलप्रवाहवृद्धेः कारणात् शुक्रवासरे एकः अतिरिक्तद्वारः उद्घाटितः। सम्प्रति चत्वारः द्वाराः द्वौ द्वौ मीटरपर्यन्तं उद्घाटिताः सन्ति, येभ्यः प्रतिद्वारं १२०२० क्यूसेक् वेगेन जलं बनास्नद्यां विसृज्यते— कुलं ४८०८० क्यूसेक्।
कोटानगरे च चम्बलनद्याः जलस्तरवृद्धेः कारणात् कोटाबैराज्नामकबन्धस्य द्वाराः गुरुवासरे उद्घाटिताः। कोटास्थ सरकारीमहाविद्यालयस्य छात्रछात्रिकाः महाविद्यालयस्य जीर्णदशायाः विरोधे हेल्मेट् धारयित्वा प्रदर्शनम् अकुर्वन्। उक्तमहाविद्यालयभवनं शतवर्षीयं अस्ति, यत् वृष्ट्या अधिकं जीर्णं जातम्।
अन्येषु अपि राज्यस्य जनपदेषु वृष्टेः कारणात् नानाविधानि संकटानि उत्पन्नानि। भरतपुरनगरे बहवः भागाः जलावृत्ताः, नगरीयमहानगरपालिकायाः आयुक्तगृहं अपि जलाक्रान्तम्। सीकरजनपदस्य फतेहपुरे एकः रोडवेज् यानम् जलनिवृत्तौ फंसितम्, यत् जेसीबीयन्त्रस्य साहाय्येन बहिर्नीतम्। अल्वरनगरे मूसलधारेण सम्पन्नवृष्टेः कारणात् राजकीयचिकित्सालये जलसञ्चयः जातः। तत्र नगरे एकस्य मार्गस्य भङ्गेन दशफुटगह्वरं जातम्। खैरथल्-तिजाराजनपदस्य भिवाडीनामकक्षेत्रे एकः युवकः मुक्तविस्फारितमेनहोल् मध्ये यानसहितं पतितः, यः तत्रैव मृत्युमवाप। वातावरणविज्ञानकेन्द्रेण जयपुरे स्थितेन उक्तं यत् राजस्थानप्रदेशे वर्तमानवृष्टेः कारणं मानसूनस्य ‘ट्रफ् लाइन’ इत्याख्याया रेखायाः श्रीगङ्गानगर-रोहतकयोः मध्ये गमनं अस्ति। अनेन सह दक्षिण-पश्चिमराजस्थानप्रदेशस्य उपरिस्थरे एकं चक्रवातात्मकं परिसंचरणम् अपि सक्रियम् अस्ति। अस्य प्रभावेन द्वितीय अगस्ततिथौ बीकानेर्-मण्डले वर्षा सम्भाव्यते, यदा प्रदेशस्य अन्येषु भागेषु वायुप्रवृत्तिः शुष्का भविष्यति इत्यपि उक्तम्।
---------------
हिन्दुस्थान समाचार