Enter your Email Address to subscribe to our newsletters
रायपुरम् 1 अगस्तमासः (हि.स.)। छत्तीसगढराज्ये अद्य १ अगस्त २०२५ दिनाङ्के पुरातनपेंशनयोजना समाप्ता।
छत्तीसगढराज्ये अद्य शुक्रवासरे २०२५ वर्षस्य अगस्तमासस्य प्रथमे दिनाङ्के पुरातनपेंशनयोजना (ओपीएस) समाप्ता भविष्यति। अतः १ अगस्त २०२५ आरभ्य भविष्यात् सर्वासु नियुक्तिषु कर्मकराणां कृते केवलं नूतनपेंशनयोजना (एनपीएस) अथवा एकीकृतपेंशनयोजना (यूपीएस) एव विकल्परूपे उपलब्धः भविष्यति।
राज्यसर्वकारेण २४ जनवरी २०२५ दिनाङ्के निर्गतं राजपत्रं (FX-1/3/2024-PR) अनुसारं १ अगस्त २०२५ दिनाङ्कादारभ्य प्रत्यक्षनियुक्तिप्राप्ताः सर्वकारकर्मकराः एनपीएस अथवा यूपीएस मध्ये एकस्मिन् योजनायाम् विकल्पं कर्तुं शक्नुवन्ति। पुरातनपेंशनयोजना नूतननियुक्तिषु अनुपयुज्या भविष्यति।
केन्द्रसर्वकारेण १ एप्रिल् २०२५ दिनाङ्के प्रवर्तिता यूपीएस योजना, ओपीएसयाः सुनिश्चितपेंशनम् एनपीएसस्य च अंशदानाधारितमूल्यवृत्तम् इत्येतयोः संयोगरूपेण अस्ति। अस्यां योजनायां गतपञ्चविंशतिवर्षेभ्यः वेतनं आधारीकृत्य ५० प्रतिशतं पेंशनम्, दशवर्षसेवायाम् न्यूनतया १०,००० रूप्यकाणां मासिकपेंशनस्य च गारण्टी प्रदत्ता अस्ति।
उल्लेखनीयम् यत् यूपीएस योजनान्तर्गताः सर्वाः पेंशनसम्बद्धकार्यमालाः पेंशनभविष्यनिधिनिदेशालयस्य अधीनत्वेन कार्ययिष्यन्ते, येन पारदर्शिता च वित्तीयनियन्त्रणं च सुनिश्चितं भविष्यति। सर्वकारस्य दावः अस्ति यत् एषः निर्णयः कर्मकराणां कृते विकल्पं, निवृत्तिसुरक्षां पेंशनसुधारं च प्रदास्यति। यूपीएस सुनिश्चितलाभं यच्छति, यदा एनपीएस निवेशाधारितम् अस्ति। एषः परिवर्तनं राज्यस्य दीर्घकालीनवित्तीयस्थैर्यं सम्यक् स्थापयिष्यति। नूतनपेंशननीत्याः द्वारा कर्मकराः उत्तमं वित्तीययोजनं कर्तुं शक्नुवन्ति, शासनस्य विषये विश्वासः वर्धिष्यते, सेवायाः आकर्षणं च वृद्धिं प्राप्स्यति, निवृत्तिसज्जतायाश्च संवर्द्धनं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता