मुख्यमंत्रिणा डॉ. यादवेन लोकमान्य बाल गंगाधर तिलकः पुण्यतिथौ पुरुषोत्तम दास टंडनः तज्जयंत्यां प्रणतौ
भाेपालम्, 1 अगस्तमासः (हि.स.)।महानः स्वातन्त्र्यसंग्रामी, स्वराज्यभावनां भारतस्य जनमानसे स्थापयितुं समर्थः लोकमान्यबालगङ्गाधरतिलकस्य अद्य (शुक्रवासरः) पुण्यतिथिः अस्ति। एतेन सह भारतरत्नसम्मानितः स्वातन्त्र्यसंग्रामी च समाजसुधारकः पुरुषोत्तमदासतण्डनस्
मुख्यमंत्री डाॅ. यादव ने लोकमान्य बाल गंगाधर तिलक काे पुण्यतिथि  पर किया नमन


मुख्यमंत्री डाॅ. यादव ने  पुरुषोत्तम दास टंडन काे जयंती पर किया नमन


भाेपालम्, 1 अगस्तमासः (हि.स.)।महानः स्वातन्त्र्यसंग्रामी, स्वराज्यभावनां भारतस्य जनमानसे स्थापयितुं समर्थः लोकमान्यबालगङ्गाधरतिलकस्य अद्य (शुक्रवासरः) पुण्यतिथिः अस्ति। एतेन सह भारतरत्नसम्मानितः स्वातन्त्र्यसंग्रामी च समाजसुधारकः पुरुषोत्तमदासतण्डनस्य अपि अद्य एव जयंती अस्ति। अस्मिन् अवसरः मध्यप्रदेशमुख्यमन्त्री डॉ॰ मोहनयादवः उभययोः स्वातन्त्र्यसंग्रामिणोः स्मरणं कृत्वा श्रद्धांजलिं समर्पितवान्।

मुख्यमन्त्री डॉ॰ यादवः “एक्स्” इत्याख्यायाम् सामाजिकमाध्यमे पोस्ट् कृत्वा लोकमान्यबालगङ्गाधरतिलकं प्रति श्रद्धांजलिं अर्पयन् एवम् उक्तवान्—

स्वातन्त्र्यसंग्रामी, समाजसुधारकः, प्रखरचिन्तकः च लोकमान्यबालगङ्गाधरतिलकस्य पुण्यतिथौ सादरं श्रद्धांजलिं अर्पयामि। 'स्वराज्यम् मम जन्मसिद्धं अधिकारः, तं अहं प्राप्य एव स्थास्यामि' इत्यनेन दृढसङ्कल्पेन सः देशस्य स्वातन्त्र्याय जनमानसस्य जागरणं कृतवान्। तस्य विचाराः राष्ट्रसेवायाः मूलमन्त्ररूपेण वर्तन्ते।

अन्यस्मिन् सन्देशे डॉ॰ यादवः पुरुषोत्तमदासतण्डनस्य जयंतीं स्मृत्वा एवं नमनं कृतवान्—

महानः स्वातन्त्र्यसंग्रामी, समाजसुधारकः, हिन्दीसेवकः च भारतरत्नसम्मानितः श्रद्धेयः पुरुषोत्तमदासतण्डनः, तस्य जयंतीदिने सादरं नमनं कुर्मः। सरलता, सेवा, साद्गुण्यञ्च एतेषां त्रिवेण्याः मूर्तरूपम् एव तस्य व्यक्तित्वम् आसीत्। हिन्दीभाषायाः राष्ट्रभाषारूपे प्रतिष्ठाय योगदानस्य कृते राष्ट्रं सदा कृतज्ञं भविष्यति।

---------------

हिन्दुस्थान समाचार