सांसदो डॉ. सवरा विरार-दहानोः मध्यमे स्थानीयरेलयानानि वर्धयितुं याचना
मुंबई, 1 अगस्तमासः, (हि. स.)।पालघरलोकसभाक्षेत्रस्य सांसदः डॉ. हेमन्तः सवरः विरार-दहानू-चर्चगेटनगराणां मध्ये यात्रां कुर्वन्तः सहस्रशः उपनगरयात्रिकाणां समस्याः लोकसभायां प्रकटितवान्। तेन समस्यानां समाधानार्थं लोकल् रेलयानानां संख्यायाः च सुविधायाः च व
लोकल ट्रेन की फाइल फोटो।


मुंबई, 1 अगस्तमासः, (हि. स.)।पालघरलोकसभाक्षेत्रस्य सांसदः डॉ. हेमन्तः सवरः विरार-दहानू-चर्चगेटनगराणां मध्ये यात्रां कुर्वन्तः सहस्रशः उपनगरयात्रिकाणां समस्याः लोकसभायां प्रकटितवान्। तेन समस्यानां समाधानार्थं लोकल् रेलयानानां संख्यायाः च सुविधायाः च वृद्धिं कर्तुं आग्रहः कृतः।सः अवदत् यत् अस्मिन रूट् इत्याख्ये प्रतिदिनं यात्रिकाणां महद्भारः दृश्यते, येन कारणेन प्रातःकालीन-सायंकालीन व्यस्तसमये यात्रा अतीव क्लेशदायिनी भवति। अस्मिन् सन्दर्भे रेलयानानां संख्या, कालबद्धता च, स्टेशन-सुविधायश्च महत्त्वपूर्णं परिवर्तनं आवश्यकं भवति।डॉ. सवरः निम्नलिखितानि अभ्यर्थनानि अकरोत् प्रातःकाले षष्टवादने आरभ्य च सायंकाले व्यस्तसमये च अधिकानां रेलयानानां संचालनम्।प्रतिदिनं आवश्यकतानुसारं नियोजितं समय-सारिणीं निर्माणम्।यात्रिकाणां भीमं संख्यां न्यूनं कर्तुं लोकल् डिब्बानां संख्या द्वादशतः पञ्चदशपर्यन्तं वर्धनम्।विरार-दहानूमार्गे वातानुकूलितं (ए.सी.) लोकल् सेवा आरम्भः।सामान्यजनानां कृते सुलभं नॉन-ए.सी. लोकल् सेवायाः संख्या-वृद्धिः।स्टेशनस्थलेषु सुविधानां सुधारः, यथा – द्वारयोः समीपे स्वच्छशौचालयाः, डिजिटल् संकेतपट्टिकाः, उपवेशनव्यवस्था च।प्रातःचतुर्वादने डहानुतः चर्चगेट् यावत् लोकल्सेवाया आरम्भः।सायंषष्ठवादने विरारतः दहानुं प्रति अतिरिक्तलोकल्सेवायाः सञ्चालनम्।वर्तमानकाले दहानूपर्यन्तं सञ्चालितानां लोकल्रेलयानानां उम्बरग्रामं पर्यन्तं विस्तारः।डॉ. सवरः उक्तवान् यत् एतेन सामान्ययात्रिकाणां कठिनता न्यूनं भविष्यति, यात्रा सुलभा समयसमीकृता च भविष्यति। उपनगरविकासेऽपि शीघ्रता भविष्यति।

हिन्दुस्थान समाचार