Enter your Email Address to subscribe to our newsletters
- परिवारः प्रकटितं साहाय्यम्, कथितम्- अंततः सत्यस्य जातो जयः ।
मीरजापुरम्, 1 अगस्तमासः (हि.स.)।जनपदस्य जिग्नाथानाक्षेत्रान्तर्गतं भंवरूपुरसाटनपट्टीग्रामं निवसन् हिन्दुत्ववादी नेता सुधाकरचौबे मालेगांवस्फोटकाण्डे न्यायालयेन निर्दोष इति निर्णयेन बाइज्जत् विमुक्तः अभवत्। अस्य निर्णयस्य वार्ता प्राप्ते ग्रामे हर्षोल्लासपूर्णः वातावरणः प्रवर्तते स्म। सन्देशस्य प्राप्त्यनन्तरं तस्य परिवारे समर्थकेषु च प्रमोदस्य लहरिः व्याप्ता।
सुधाकरचौबे इत्यस्य ज्येष्ठभ्राता दीननाथचौबे प्रतिक्रिया प्रदाय उक्तवन्तः— एषा सत्यमेव विजयः। मम भ्राता निरपराधी आसीत्, इदानीं तत् न्यायालयेन प्रमाणीकृतम्।
परिवारजनैः आरोपितं यत्—सनातनसंस्कृतेः हिन्दुत्वस्य च समर्थनं कुर्वतः सुधाकरचौबे इत्यस्य विरुद्धं गूढषड्यन्त्रं रच्य व विस्फोटकाण्डे अन्यायेन लिप्तः कृतः। एतेन सम्पूर्णः परिवारः वर्षानां पर्यन्तं मानसिकव्यथां सहनं कृतवान्।
सुधाकरचौबे पञ्चभ्रातृमध्ये चतुर्थस्थानस्थः अस्ति। तस्य ज्येष्ठभ्रातरौ राजेन्द्रप्रसादचौबे, महेन्द्रप्रसादचौबे, कनिष्ठभ्राता विनोदयचौबे च संयुक्तरूपेण अवदन्—अस्माकं भारतीयन्यायव्यवस्थायाम् अचलं विश्वासः आसीत्, यः अद्य सत्यरूपेण प्रतिपादितः।
पत्नी रुद्रावतीदेव्याः वक्तव्यं— मम पतिः अद्यापि हिन्दुत्वमार्गे निष्ठया स्थितः। गृहं विरलतया आगच्छति, तथापि तस्य विचारेषु कदापि विचलनं न जातम्।
पूर्वप्रधानः राजेशकौबे इत्यनेन निर्णयस्य विषये अभिप्रायः प्रदत्तः— एषः निर्णयः तेषां जनानां कृते सशक्तं प्रत्युत्तरं अस्ति, ये 'हिन्दूआतङ्कवाद' इत्यादीनि नूतनशब्दानि निर्माण्य सनातनसंस्कृतिं कलुषितुं प्रयत्नं कुर्वन्ति स्म।
ग्रामे हर्षप्रदर्शनेन सह मिष्टान्नवितरणं कृतम्। अनेके जनाः परस्परं बधाइः अपि दत्तवन्तः।
हिन्दुस्थान समाचार