Enter your Email Address to subscribe to our newsletters
—गंगायाः जलस्तरश्चेतता बिंदोः समीपं, रक्षणं शिविरेषु प्राप्नुवन् पीड़िताः
वाराणसी,01 अगस्तमासः (हि.स.)वाराणस्याम् पुनरपि रौद्रं रूपं धृतवत्यौ गङ्गा-वरुणे नद्यौ, बाढायाः परिस्थित्याः निर्माणम्।
उत्तरप्रदेशराज्यस्य वाराणसीनगरस्य क्षेत्रे पुनः सदानीरा गङ्गा तस्याश्च सहायकनदी वरुणा उग्रं रूपं धारयित्वा तयोः तटवर्तीप्रदेशेषु बाढायाः परिस्थितिर्निर्मिता। तटप्रदेशेषु सामान्यजनजीवनं स्थगितं जातम्। मोक्षतीर्थरूपेण प्रसिद्धस्य मणिकर्णिकाघाटस्य गल्ल्यां द्वितीयवारं नावचालनाय परिस्थितिः उत्पन्ना। जलस्तरः चेतावनीसूचकबिन्दोः केवलं किञ्चन सेण्टीमीटर् दूरे स्थितम्। वाराणसीजनपदप्रशासनं, एनडीआरएफ् (राष्ट्रीयआपदाप्रतिक्रियादलम्), जलपुलिसच सर्वथा सज्जाः सन्ति। पीडितप्रदेशेषु राहतकार्यं संरक्षणं च करणाय निर्देशाः प्रदत्ताः।
गङ्गायाः जलस्तरः संचेतनाबिन्दोः समीपे।
केंद्रीयजलायोगस्य अनुसारं शुक्रवासरे प्रातःषट् वादनस्य समये गङ्गायाः जलस्तरः ६९.८४ मीटर् इत्यस्मिन् स्तरि लेखितः। चेतावनीबिन्दुः ७०.२६२ मीटर् अस्ति, संकटचिह्नं च ७१.२६२ मीटर्। जलस्तरः औसततया प्रति घण्टे द्विसेण्टीमीटरपरिमाणेन वर्धमानः अस्ति, येन परिस्थिति: अतिगंभीरं स्यात्।
जलायोगः अपि अवदत् यत्, गतदिनेषु उत्तराखण्डप्रदेशे मेघस्फोटात्, मध्यप्रदेशे बुन्देलखण्डे च मूसलवृष्टेः परिणामस्वरूपं केन-बेतवा-यमुनानदीनां जलप्रवाहः गङ्गायां प्राप्तः, येन जलस्तरवृद्धिः जायते।
तटवर्ती क्षेत्राणि सर्वाधिकं पीडितानि।
पूर्वबाढायाः समये यथाप्राप्तम्, इदानीं पुनः बाढायाः मुख्यप्रभावः तहसील्-सदरक्षेत्रे रामपुरढाब ग्रामे, च वाराणसीनगरे वरुणानद्याः तटे स्थितेषु सप्तसु मोहल्लेषु दृश्यते—सलारपुरम्, सरैया, नख्खीघाटम्, ढेलवरिया, दनियालपुरम्, हुकुलगञ्जम्, च बडीबाजारम् इत्येतानि सर्वाधिकाः प्रभावितप्रदेशाः।
घाटेषु अन्त्यविधौ विघ्नम्, विथ्याम्एव आरती
गङ्गायाः वर्धमानं जलस्तरं मणिकर्णिकाघाटं हरिश्चन्द्रघाटं च प्रभावितवान्, यत्र अन्त्यविधयः कर्तुं कठिनतायुक्ताः जाताः। मणिकर्णिकाघाटस्य गल्ल्यां जलस्य सञ्चारात्, शवानि नौकया उपरिप्लेट्फॉर्मपर्यन्तं नीयन्ते। हरिश्चन्द्रघाटे च गल्ल्यां एव दाहविधिः क्रियते। श्रीकाशीविश्वनाथधामस्य गङ्गाद्वारस्य सोपानपर्यन्तं जलप्रवाहः प्राप्तः, यत्र अतिरिक्तसुरक्षाव्यवस्था नियुक्ता। दशाश्वमेधघाटे स्थितं जलपुलिसकार्यालयं अपि जलाभिभूतिसीमायां स्थितम्। अस्सीघाटस्य सोपानानि अतिक्रम्य गङ्गाजलः गल्ल्याः पर्यन्तं प्रविष्टः, यत्र प्रतिदिनं सम्पाद्यमानं सायंकालीनं गङ्गार्तिं गल्ल्यां एव सम्पद्यते।
प्रभावितप्रदेशेषु सतर्कता – प्रशासनस्य प्रत्युत्तरम्।
साम्नेघाटे निर्मीयमानं घाटं सम्पूर्णतया जलमग्नं जातम्। मारुतिनगरकोलोनीनामकप्रदेशे पृष्ठतः जलप्रवेशः जातः। सारनाथस्य पुलकोहनानामके क्षेत्रे अपि वरुणायाः जलस्तरवृद्धेः कारणेन नालिकामार्गेण प्लावनजलस्य प्रवेशः गृहेषु जातः।
प्रशासनेन सततं निरीक्षणं क्रियते स्म, जलस्तरे दृष्टिः स्थापिता च। सर्वे सम्बन्धितविभागाः—जलपुलिस्, एनडीआरएफ्, नगरनिगमं, स्वास्थ्यविभागं च—सर्वे अपि सजगस्थितौ स्थापिता:। जिलाधिकारी सत्येन्द्रकुमारः गुरुवासरे सायं कालं बाढाप्रभावितं सलारपुरं प्रदेशं निरीक्षितवान्। राहतशिविररूपेण प्रयुक्ते प्राथमिकविद्यालये जलप्लावनेन पीडितैः सह सः संवादं कृतवान्।
---------------
हिन्दुस्थान समाचार