Enter your Email Address to subscribe to our newsletters
कोलकाता, 01 अगस्तमासः (हि.स.)।
त्रिभिः निम्नदाबक्षेत्रैः सह चातिवृष्ट्या कोलकातायां जुलाईमासः अभिलेखीयवृष्ट्या समाप्तः जातः। भारतीयोष्णदेशीयमौसमविज्ञानसंस्थानस्य (IITM), पुणे स्थितस्य आलेखानुसारं संवत्सरः 2025 कोलकातानगरस्य इतिहासे अतीवस्निग्धतमः जुलैमासः अभवत्।
आधिकारिकसांख्यिक्यनुसारं, गुरुवासरे सायं यावत् कोलकातायां 667.2 मि.मी. वर्षा अभिलिखिता। एषा विगतदशवर्षेषु जुलैमासस्य सर्वाधिकवृष्टिः अस्ति। तस्मात् पूर्वं संवत्सरे 2007 तमे 715.5 मि.मी. वर्षा जाता आसीत्। सामान्यतः जुलैमासे 371.6 मि.मी. वर्षा भवति, किन्तु अस्यां वार्षिके एषः आलेखः प्रायः 300 मि.मी. अधिकः अभवत्। विशेषतया, जुलैमासस्य एकत्रिंशत् दिनेषु सप्तविंशति दिनानि वृष्टियुक्तानि आसन्, तेषु चत्वारः दिनाः ‘अत्यधिकवृष्टि’ वर्गे गण्यन्ते।
IITM संस्थानस्य अनुसारं, मेयमासे कोलकातायाम् सामान्यतः 118.5 मि.मी. वृष्टिः लभ्यते, किन्तु एतस्मिन् वर्षे 155.8 मि.मी. वृष्टिः अभवत्। जूनमासे वृष्टिः न्यूनमात्रया प्राप्ता — सामान्यतः 276.7 मि.मी. तया तुलने 248.2 मि.मी. एव वृष्टिः जातम्।
सततवृष्ट्या बाध्यमानाः कोलकातानिवासिनः समप्रति किंचित् विश्रान्तिम् आशङ्कन्ते। अलीपुरमौसमविभागेन निगदितम् यत् शुक्रवासरात् दक्षिणबंगालप्रदेशे वृष्टेः तीव्रता न्यूना भविष्यति। तथापि सर्वेषु जनपदेषु लघुतः मध्यमपर्यन्तं वृष्टेः सम्भावना वर्तते, अपि च कतिपयस्थलेषु 30-40 कि.मी./घण्टा वेगेन वातानिलः अपि प्रवेष्टुम् अर्हति।
उत्तरबंगालप्रदेशे सप्ताहान्ते अपि वृष्टिक्रमः स्थायित्वं धारयिष्यति। शुक्रवासरे सर्वेषु जनपदेषु विद्युत्स्फुलिङ्गसहितं लघु-मध्यमवृष्टेः सम्भावना अस्ति। दार्जिलिङ्ग्, कालिम्पोंग्, जलपाइगुड़ी, उत्तरदक्षिणदिनाजपुर, मालदा इत्येषु जनपदेषु अतीववृष्टेः निमित्तं येलो-सतर्कतासूचना प्रकाशितम्।
शनिवासरात् सोमवासरपर्यन्तं एतेषु प्रदेशेषु 7–20 से.मी. यावत् अतीववृष्टेः सम्भावना सति ऑरेंज-सूचना अपि निर्गता। विशेषतया दार्जिलिङ्ग्, कालिम्पोंग्, अलीपुरद्वार्, कूचबिहार्, जलपाइगुड़ी इत्यादिषु 200 मि.मी. पर्यन्तं वृष्टिः सम्भाव्यते।
मङ्गलवासर–बुधवासरयोः दार्जिलिङ्ग्, कालिम्पोंग्, अलीपुरद्वार्, कूचबिहार्, जलपाइगुड़ी, उत्तर-दक्षिणदिनाजपुर इत्येषु अपि 7–11 से.मी. यावत् क्षिप्रम् वृष्टेः तीव्रसंभावना अस्ति। मौसमविभागेन एतेषां जनपदेषु सजगता पालनीया इति परामर्शः दत्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता