Enter your Email Address to subscribe to our newsletters
चंडीगढम्, 1 अगस्तमासः (हि.स.)।केन्द्रसर्वकारेण पञ्जाबराज्यस्य विद्युन्मन्त्री हरभजनसिंह-ईटीओ इत्यस्मै ४-६ अगस्त् २०२५ इत्येतयोः दिनाङ्कयोः अमेरिका-देशस्य बोस्टन-नगरस्य मैसाचुसेट्स्-राज्ये आयोज्यमानायां नेशनल्-कान्फरेन्स् ऑफ् स्टेट् लेजिस्लेटर्स् इत्यस्मिन् लेजिस्लेटिव् समिट् इति नामके महत्त्वपूर्णे अन्तर्राष्ट्रीयसम्मेलने भागग्रहणाय यात्रानुज्ञा न प्रदत्ता।
एषः सम्मेलनः जगति सर्वत्र राजनैतिकनेतॄणां, नीतिविशेषज्ञानां, नीति-निर्मातॄणां च प्रमुखं मंचरूपेण व्यवह्रियते। पञ्जाबसर्वकारं गुरुवासरे रात्रौ केन्द्रसर्वकारस्य आधिकारिकं सूचनापत्रं प्राप्तम्, यस्मिन् उक्तं यत् मन्त्रीणां राजनैतिक-अनुमतिः न प्रदीयते।
एषा पञ्चमी वार्ता अस्ति यदा केन्द्रसर्वकारेण पञ्जाबराज्यस्य आम्-आदमी-पक्षस्य मन्त्रिणं वा वरिष्ठपदस्थं कञ्चन विदेशगमनाय अनुमतिं न प्रदत्ता।
पूर्वं पञ्जाबराज्यस्य मुख्यमन्त्री भगवन्तमान् महोदयेन वर्षे २०२४ तमस्य फ्रांस्-देशे पेरिस्-नगरे आयोज्यमाने ओलम्पिक्-क्रीडायाः सन्दर्भे एका हॉकी-क्रीडायाः दर्शनाय विदेशयात्रा योजनायाम् अनुरोधः कृतः आसीत्, परन्तु केन्द्रसर्वकारेण तस्य अनुमतिः न दीयते स्म।
तद्वत्, पञ्जाबविधानसभायाः अध्यक्षः कुलतारसिंह-संधवा इत्यस्मै अमेरिका-देशस्य केण्टकी-राज्ये आयोज्यमानं किञ्चन कार्यक्रमं गन्तव्यम् आसीत्। सः अपि केन्द्रसर्वकारं प्रति राजनैतिक-अनुमतिं याचितवान्, किन्तु तस्यापि अननुज्ञा।
पञ्जाबस्य कृषिमन्त्री गुरमीतसिंह-खुड्डियान् इत्यस्मै अपि किञ्चन अन्तर्राष्ट्रीयकृषिसम्मेलनं गन्तव्यम् आसीत्, किन्तु तस्य अपि यात्रानुज्ञा न प्राप्ता।
तद्वत्, नवीन-नवीकरणीय-ऊर्जा-मन्त्री अमनअरोडा इत्यस्मै अपि वर्षे २०२२ तमस्य यूरोप्-देशस्य यात्रायै अनुमतिः न दीयते स्म।
---------------
हिन्दुस्थान समाचार