Enter your Email Address to subscribe to our newsletters
गंगटोकम्, 20 अगस्तमासः (हि.स.)।लखनऊ/गंगटोकम्। आज २० अगस्त १९९२ तम्यां तिथौ दीर्घसङ्घर्षानन्तरं नेपालीभाषायाः भारतीयसंविधानस्य अष्टम्याः अनुसूच्यां मान्यता प्रदत्ता आसीत्। अद्य तस्य स्मरणार्थं चतुस्त्रिंशः मान्यतादिवसः देशेऽस्मिन् सम्प्रति उत्सवेन आचर्यते। अस्मिन्नवसरे सिक्किमराज्यस्य राज्यपालः ओम् प्रकाश माथुरः, मुख्यमन्त्री च प्रेमसिंह-तमाङ् इत्यौ समस्तं नेपालीभाषीसमुदायं हार्दिकं अभिनन्दनं प्रेषयामासताम्।राज्यपालः माथुरः स्वसन्देशे अवदत्— “अद्य दिनं विश्वस्य सर्वत्र नेपालीभाषीजनानां कृते ऐतिहासिकः हर्षजनकश्च प्रसङ्गः। अस्य दिनेऽस्मान् स्मार्यते यत् भारतस्य लक्षशः नेपालीभाषिणः जनाः स्वसंस्कृत्या, भाषया, जीवनशैल्या च भारतसंघे स्वकीयं सत्यस्वरूपं प्रतिष्ठापयितुं दीर्घकालं गम्भीरं च सङ्घर्षम् अकरोत्। संविधानस्य अष्टम्यां अनुसूच्यां नेपालीभाषायाः मान्यता तेषां समुदायस्य भावनात्मकं सांस्कृतिकं च एकीकरणं प्रतिपादयति।मुख्यमन्त्री तमाङ् अपि स्वसन्देशे अवदत्— “अद्य दिनं केवलं स्मरणोत्सव एव न, अपि तु अस्माकं सामूहिकसङ्घर्षस्य, अनवरतप्रयत्नानां, असीमधैर्यस्य, अदम्यसाहसस्य च शाश्वतं प्रतीकं भवति। अयं दिनः अतीतानां त्यागानां सङ्घर्षस्य च बलिदानस्य स्मरणं करोति। अस्यैव भूमौ स्थित्वा वयं मातृभाषां संस्कृति च भाविषु पीढिषु गौरवपूर्णं दायित्वेन समर्पयितुं प्रेर्यावहे। भाषासङ्ग्रामिणां कठिनपरिश्रमात्, दृढसङ्कल्पात्, अद्वितीयत्यागात् चैव नेपालीभाषा संविधानस्य अष्टम्याः अनुसूच्याः अन्तर्गतं स्थापितवती।इतिहासतः ज्ञायते यत् १९५६ तम्यां वर्षे देहरादूने प्रारब्धः नेपालीभाषायाः मान्यतायै आन्दोलनः आसीत्। अनन्तरं पश्चिमबङ्गे, सिक्किमे, असमे, मणिपुरे, त्रिपुरायां, अरुणाचलप्रदेशे, मेघालये, नागालये, मिजोरमे, जम्मूकश्मीरप्रदेशे, हिमाचलप्रदेशे, उत्तरप्रदेशे, पञ्जाबे च अस्य आन्दोलनस्य विस्तारः जातः।सिक्किमस्य तदा मुख्यमन्त्री स्वर्गीयः नरबहादुर-भण्डारी, तस्याः धर्मपत्नी च पूर्वसंसदसदस्या दिलकुमार-भण्डारी इत्ये च नेपालीभाषायाः मान्यतादाने रचनात्मकं निर्णायकं च योगदानं कृतवन्तौ।भारतीयगोरखाणां षट्त्रिंशद्वर्षपर्यन्तं लोकतान्त्रिकसङ्घर्षस्य अनन्तरं १९९२ तम्यां वर्षे २० अगस्ततिथौ नेपालीभाषा भारतीयसंविधानस्य अष्टम्यां अनुसूच्यां समाविष्टा।ज्ञातव्यं यत् सिक्किमराज्ये वर्तमानस्य सिक्किमक्रान्तिकारिमोर्चादलस्य सरकारेण २०२२ तम्यां वर्षात् प्रारभ्य २० अगस्तदिनं राजपत्रित-विश्रान्तिदिवसः इति घोषितम्।
हिन्दुस्थान समाचार