Enter your Email Address to subscribe to our newsletters
नवदेहली, 25 अगस्तमासः (हि. स.) भारतीयफुटबॉलदले मुख्यप्रशिक्षकः खालिद् जमील आगामी सीएएफए नेशन्स् कप् २०२५कृते स्वस्य प्रथमं दलं घोषितवान्।
अस्मिन् दलसङ्घे अनुभवी गोलकीपरः गुरप्रीतः सिंहः सन्धू पुनः सम्मिलितः जातः, किन्तु *प्रख्यातः स्ट्राइकरः सुनीलः छेत्री बहिर्गतानां मध्ये स्थितः। प्रशिक्षकेन संकेतितम् यत्— अस्मिन् स्पर्धायां नूतनानां स्ट्राइकराणाम् परीक्षणं करिष्यते।
भारतस्य प्रतियोगितासु —
२९ अगस्तदिनाङ्के ताजिकिस्तानेन सह,१ सितम्बर ईरानेन सह,४ सितम्बरे अफगानिस्तानेन सह प्रतिस्पर्धा भविष्यति।
सीएएफए नेशन्स् कप् २०२५ कृते भारतीयदलः — गोलरक्षकः — गुरप्रीतः सिंहः सन्धू, अमरिन्द्रः सिंहः, ऋतिकः तिवारी।रक्षकाः (डिफेण्डर्स्) — राहुलः भेके, नाओरेम् रोशनः सिंहः, अन्वरः अली, सन्दीशः झिङ्गन्, चिङ्ग्लेन्साना सिंहः, हमिङ्थनमाविया राल्टे, मोहम्मद् उवैस्।मध्यप्रदेशकाः (मिडफील्डर्स्) — निखिलः प्रभुः, सुरेशः सिंहः वाङ्जम्, डेनिशः फारूकः भट्, थोङ्गाओजम् जैक्सन् सिंहः, बोरिसः सिंहः थाङ्जम्, आशीकः कुरुनियन, उदन्तः सिंहः कुमाम्, नाओरेम् महेशः सिंहः।आक्रमकाः (फॉरवर्ड्स्)— इरफान् यादवड्, जूनियर् मनवीरः सिंहः, जितिन् एम्.एस्., लालियाञ्जुआला छाङ्ग्ते, विक्रमः प्रतापः सिंहः।
एवं भारतीयदलम् अस्य स्पर्धायाः कृते युवा–अनुभवसङ्गमेन सज्जम् अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता